पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २६७ मानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसामग्रीत्वार्थकम् । एतद्विशेषणद्वयंप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थं नानेति । स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति । चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम् । एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव । यद्वा 'सादृश्यहेतुकानिश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृतिः'। सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा । आद्या यथा- 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' द्वितीया यथा- 'तरणितनया कि स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकनकौतुकै- र्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ।।' तत्रापि तयोस्तुल्यबलस्य सत्त्वादत आह-समानेति । तत्र तु विधेयांशे भासकसामग्री उत्कटेति भावः । नन्वेवं नानेतिमात्रं व्यर्थमत आह-एतदिति । भासमानेति समबलेत्येतदित्यर्थः । अनेकेति । अनेकधर्मकस्य संशयस्येत्यर्थः । एतदिति । रमणीयत्वोपस्कारकत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते । मानाभावात् । किं त्वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आह- यद्वेति । अन्यतरत्रोभयभेदसत्त्वात्तथोक्तौ तत्रातिप्रसङ्गापत्तेराह-अन्यतरेति । तथा च संभावनाभिन्नत्वे सति निश्चयभिन्नत्वमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः । तत्रालिर्नेत्रं वेति वाक्याद्विरोधभानवादिमतेऽलित्ववानयमलित्वविरुद्धनेत्रत्ववानिति विशिष्टवैशिष्टयन्यायेन, एकत्र द्वयमिति न्यायेन वा बोधः । अलिशब्दस्य च वाशब्दसमभिव्याहारे उभयत्रान्वयः । व्युत्पत्तिवैचित्र्यात् । केचित्तु वाशब्दद्वयबलादलित्वविरुद्धनेत्रत्ववानयं नेत्रत्वविरुद्धालित्ववानिति बोधमाहुः । तदभानवादे तु अलित्ववानयं नेत्रत्ववानिति बोधः । समुच्चये वेतन्मतेऽविरोधमानमङ्गीकार्यमिति दिक्। मरकतेति । व्याख्यातं प्राक् । इति पूर्वार्धोक्तः। प्रपेदे प्राप्तः । तरणीति । कालिन्दीत्यर्थः । सा तज्ज्योत्ना । इयं तु मधुरेति भावः । वसतिर्वासः । अत्र निश्चयस्य ३३