पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ काव्यमाला। - शब्दशक्तिमूलपरिणामध्वनिर्यथा- 'पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥' अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यक- स्मरतापवत्तावैविष्टयबुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीस्तन- रूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेयाः । इति रसगङ्गाधरे परिणामप्रकरणम् । अथ ससंदेहः- सादृश्यमूला भासमानविरोधका समवला नानाकोट्यवगाहिनी धी रमणीया ससंदेहालंकृतिः। 'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् । परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥' अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिवारणाय सादृश्यमूलेति । सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंहवत्प्रान्तरं गच्छ गृहं सेवस्व वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधक- प्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्रसङ्गः । तस्य सादृश्यज्ञानरूपत्वात् । मालारूपकातिप्रसङ्गवारणाय भास- कत्वेन स्वरूपेण तस्य तापजनकत्वादिति भावः । अयं तु इन्दुनेत्युदाहृतः । झगिति आदौ । आतपादिकृतसंतापशामकमेघत्वेन तस्योपस्थितेरिति भावः । दोषाश्चेति । लिङ्गभेदादय इत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे परिणामप्रकरणम् ।। संशयं लक्षयति-अथेति । धी रमणीयेति । तादृशधीवृत्तिसंशयत्वप्रकारकज्ञानविषया सालंकार इत्यर्थः । सादृश्यमूलेत्यस्य व्यावर्त्य॑माह-अधीति । हन्तेति खेदे । बान्धवानां विश्वामित्रादीनाम् । निरपायं निष्प्रतिबन्धकम् । क्रियाविशेषणमेतत् । तदिति । तादृशजनेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । यद्यप्यधिरोप्येति पर, संशयस्य न सादृश्यमूलत्वमिति यथाश्रुतेनैव वारणं संभवति, तथाप्यन्यत्राप्यदोषायाह-... सादृश्येति । तव्द्यावयमाह-तेनेति । तथार्थविवक्षया नेत्यर्थः । प्रान्तरमरण्यम् । यथाश्रुतेऽतिप्रसङ्गमाह-वाकारेति । अपिः प्रागुक्तसमुच्चायकः । तेनेत्यस्यार्थमातस्येति । उपमाविकल्पस्येत्यर्थः । मालारूपकेति । 'धर्मस्यात्मा भागधेयं । सारः सृष्टेः' इत्यादावित्यर्थः । ननु कोट्योः समबलत्वविशेषणेन कथमुत्प्रेक्षाव्या