पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २४३ न्ननयनवतीति तु पर्यवसितम् । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादियुक्तमेव । साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्विम्बप्रतिबिम्बभावमापन्नः क्वचिदुपचरितः क्वचिच्च केवलशब्दात्मा । सोऽपि क्वचिच्छब्देनोपात्तः । क्वचित्प्रतीयमानतया नोपात्तः । उपात्तोऽनुगामी यथा- 'जडानन्धान्पडून्प्रकृतिबधिरानुक्तिविकला- न्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् । निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषजभागीरथ्यो। अयमेवानुक्तो यथा- 'समृद्ध सौभाग्यं सकलवसुधायाः किमपि त- न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्त सुमनसां सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु ।' अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्वपरमोत्कर्षाधायकस्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्वपरमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरा- रोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः । लिम्पा देवाः । निरयो नरकः । अम्ब गङ्गे । भागीरथ्योः । अनुगामी धर्म इति शेषः । समृद्धमिति । गङ्गास्तुतिरेव । सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः स्वपदेन विषयविषयिपरामर्शः । सुधासाम्राज्यमित्यत्राह-आपामरेति । निरूपित इति। 'कुङ्कुमद्रवलिप्ताङ्गः काषायवसनो यतिः । कोमलातपशोणाभ्रः संध्याकालो न संशयः ॥'