पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ काव्यमाला। - उपचरितो यथा- 'अविरतं परकार्यकतां सतां मधुरिमातिशयेन वचोऽमृतम् । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥ अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः। अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् । केवलशब्दात्मको यथा- 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलानि न संशयः॥ अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्तः । आद्यो ह्यभन्नो द्वितीयस्तु भग्नः । अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् । यथा- 'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥' एवम्- 'प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥' इह क्ष्लेषण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्विरूपकं निरवयवम् । हेतुस्तु त्रिषु क्ष्लिष्ट एव । एवमन्येऽपि प्रकारा ज्ञेयाः । इत्यादाविति भावः । चन्दिरेति । चन्द्रेत्यर्थः । उपेति । वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमग्रेऽपि । अनुपात्तमिति । उपचरितमिति शेषः । अङ्कितानीति। व्याख्यातमिदम् । उपात्त एवेति । एवं चैक एव भेदोऽस्य । तदाह-लुप्त इति । अनुपात्त इत्यर्थः । अभग्नः पदावान्तरंभङ्गशून्यः । भग्नस्तघुक्त्तः । अस्य भेदान्तरमाह- अयमेवेति । केवलशब्दात्मक एवेत्यर्थः । यथेति । राजानं प्रत्युक्तिः । हे राजन्, ते पश्चशाखः पञ्चाङ्गुलिर्हस्तोऽसौ कल्पवृक्षस्य शाखैवेत्यर्थः । मृगाङ्कः क्ष्लेषेण चन्द्रो रस- विशेषश्च। तदाह-इहेति । निरवयवमिति । मिथोऽवयवावयविभावाभावादिति भावः । हेतुर्मनोभवेत्यादि बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । क्ष्लिष्ट एवेति । मनसिजातमदनसंबन्धिविशिष्टाधिमत्त्वं दयितायां मनोभवव्याधिरूपक्षयमन्यकत्वं (?)