पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ काव्यमाला। यथा 'बुद्धिर्दीपकला-' इत्यादौ । वैयधिकरण्ये च शब्दार्थतया-क्वचिद्विशेष्यम् । यथा- 'कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया । • आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां कि चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥' अत्र शशाङ्कतातादात्म्यभेदविगमशब्दरभिधीयमानं रूपकं प्रथमान्तविशेष्यतावादिनां मते विशेष्यम् । क्रियाविशेष्यतावादिनां तु तत्रैव किंचिद्यत्यासेन निष्ठान्तक्रियादाने । क्वचिञ्च विशेषणम् । यथा- 'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ॥ इह द्वितीयार्थै विशेषणीभूतं विधुत्वादि विध्वमेदात्मकतया रूपकम् । एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम् । बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशाबोध्यः । 'मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ॥' इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्वमुखस्यार्थवशादन्वये नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च स्वाभिन्नद्वारकम् । एतत्स्फोरणायैव नयनाभ्यामित्युक्तम् । मीनाभिमिति | वाक्यार्थमुख्यविशेष्यमित्यर्थः । आयातीति सप्तम्यन्तं वयोविशेषणम् । तन्व्यास्तनाविति मध्यमणिन्यायेनान्वेति । आगामीति । शक्त्या लक्षणया वेति भावः । किंचिदिति । 'किं चासीत्' इत्यस्य स्थाने 'संपन्नो हि' इति पाठे इत्यर्थः । विभवेनेति प्रख्याने हेतुः । शम्बररिपोः कामस्य । द्वितीयार्थै कर्मणि । विश्वभेदेति | लक्षणयेति भावः । विशेषणसमासे त्विति। चिन्त्यमिदम् । चन्द्रमुखमित्यस्यापत्तेः। परिणामालंकारोदाहरणे तु विशेषणसमास उचितः । अत्र तु मयूरव्यंसेति समासे त्वित्युचितम् । प्रतीति । मीनप्रतियोगिकाभेदस्य नयने अर्थवशात्सरसीरूपकानुरोधेनान्वये इत्यर्थः । स्वाभिन्नेति । मीनाभिन्ननयनेत्यर्थः । नयनाभेदे तत्प्रतियोगिकाभेदे । नि-