पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगजाधरः। २१९ स्तत्संबन्धिसीतास्मृतिश्चेति । कि त्वेषा व्यङ्गया अलंकार्यभूता च । तद्वया: वृत्त्यर्थमव्यङ्गयत्वविशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः। .आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ [अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकारः । एतद्वयावृत्तये सादृश्यमूलेति विशेषणम् ।" इत्याहुः । तदेत्सर्वमरमणीयम् । यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति तत्र सादृश्यमूला स्मृतिः स्मरणालंकार इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसंस्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वस्याविशेषात् । नहि सादृश्यमूलेत्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसंग्रहः स्यात् । यदपि 'सौमित्रे ननु सेव्यतां-' इत्यत्र स्मृतिर्व्यङ्गया अलंकार्यभूता च । तव्यावृत्तयेऽव्यङ्ग्यत्वविशेषणमित्युक्तम् । तत्र नेयं त्यर्थः । तत्सदृशेति नयनविशेषणम् । इतिभूता चेत्यग्रे योज्यः। एषा सीतास्मृतिः । अलंकारसामान्यलक्षणमपि नास्तीत्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति । भुवं प्रत्युक्तिरियम् । प्रस्तौमि करोमि। इमां भुवम् । न सादृश्येति । किं त्वेतिकसंबन्धीति रित्येति भावः (१)। रतिभावेति। कविनिष्ठेत्यादिः । अरमणीयमिति । वक्ष्यमाणदोषादिति भावः । तमेव दार्ढ्यायानूद्याह-यत्तावदिति । तत्र उच्यमाने तस्मिन् । ब्रूम इति शेषः । तदाह-सादृश्येति । एवमग्रेऽपि । केशेति । तस्य सदृशत्वेन दृष्टान्तत्वमिति भावः । स्यादिति । इतीति शेषः । सादृश्यपदस्य नियमसंबन्धिकतया संबन्ध्याकालायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । नहि जनकत्वमूला पूज्यत इत्युक्ते पुत्रजनकत्वेन भार्या पूज्यते । अतो वस्त्वन्तरसमाश्रयेत्यावश्यकमिति चिन्त्यमिदम् । नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः हा कासीत्यादि पदगम्यत्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शठादिपदगम्यासूया बुद्धा । तस्या एव प्राधान्यादलंकार्यत्वम् । अनुपस्कारकत्वाच्च वि- $