पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० काव्यमाला। स्मृतिरलंकार्यभूता । किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मादेन संचारिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः । तस्य च स्मृतिरुत्कर्षहेतुत्वादलंकार एव । अतो नितरां तद्व्यावृत्यर्थमव्यङ्गयत्वविशेषणदानमनुचितम् । नहि व्यङ्गयत्वालंकारत्व- योर्विरोध इति वक्तुं शक्यम् । नित्यव्यङ्गयानां रसभावादीनामपि पराङ्गतायामलंकारत्वाभ्युपगमात् । प्रधानव्यङ्गयव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः' इत्यत्र स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकार इति, तन्न । भावस्य हि भावाद्यङ्गतायां प्रेयोलंकारत्वम् । नात्र स्मृतिर्भावः । तस्याः स्मरतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यजितो भावः' इति सिद्धान्तविरोधात् । तथा चोक्तं सर्वस्वकृता- "प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे यथा 'अहो कोपेऽपि कान्तं मुखम्' इति । न तु स्वस्वशब्दनिवेद्यत्वे। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥' इत्यादाविति ।" ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारलक्षणम् । अपि तु भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्वशब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वं विरुद्ध- प्रलम्भस्यैव तत्त्वाच्चेति चिन्त्यम् । विप्रलम्भः श्रीरामचन्द्रनिष्ठः । नितरामित्यस्यानौचित्येऽन्वयः । तदाशयं खण्डयति-नहीति । नित्येति । सर्वथेत्यर्थः । कदाप्यवाच्यलक्ष्येति यावत् । नन्वेवं प्राधान्येऽप्यलंकारत्वापत्तिरत आह-प्रधानेति । सर्वेषु न त्वत्रैव । तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः । सिद्धान्तेति । मम्मटभट्टादीनामिति शेषः । तद्गन्थमाह-प्रेयोलमित्यादि । इतीत्यन्तेन । तत्रापि तदुक्तस्यापि न स्मृतिष्वपि । आगूरितत्वे आविष्कृतत्वे । अत्रेति । पुष्पकेण लङ्कातोऽयोध्यां गच्छत: श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे । अनुगोदं गोदासमीपे । वानीरेति । तृणधान्यतृणेत्यर्थः (१) । सुप्तं स्वापः । इष्टापत्तिं परिहरति-एवं चेति ।