पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ काव्यमाला । - अप्पयदीक्षितास्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेषिता ।' यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीणें रतिविगलितबन्धे केशपाशे प्रियायाः॥ यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्दीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीजलनिधिमन्थनस्य शौरिः॥' एकत्र सदृशदर्शनात्तत्सदृशकार्मिका स्मृतिः । इतरत्र सहशदर्शनात्तत्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्ग यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥ अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदशसीतानयनस्मृति- सता (१) । तयोव्यङ्गयत्वसादृश्यमूलकत्वयोः । अपीति। रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्येति 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी । लक्ष्यद्वयदाने बीजमाह-एकत्रेति । आद्य इत्यर्थः । इतरत्र अन्त्ये। सदृशेति । लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति-उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव वस्त्वन्तरसमाश्रयेति विशेषणफलमित्याह-अत एवेति । द्वितीयस्य लक्ष्यत्वादेवेत्यर्थः । सदृशासदृशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः । अव्यङ्गयत्वविशेषणफलमाह-सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्ड: सूर्यः । तन्नयनेति । कुरङ्गनयने.