पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोद्बुद्धसंस्कारप्रेयोज्यम्, तथापि सैन्यगतपयोधिसादृश्यदर्शनोद्बुद्धपयोधिविषयकसं- स्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यत्किचित्सादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम् । नहि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोस्तल्पनिद्रास्मरणयोरेतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोबुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगेन्द्रनिद्रादिस्मृतिस्तु नालंकार इत्याहुः । 'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥' अत्र स्मरणं चिन्तोद्द्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यङ्गयत्वविरहाच्च न भावः। एवम्- 'दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् । अनल्पनिःश्वासभरालसाङ्गयाः स्मरामि सङ्गं चिरमङ्गनायाः ॥' इहापि स्मृतिर्न भावो नाप्यलंकारः । व्यङ्गयस्यैव व्यभिचारिणो भावत्वात् । यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः' । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यङ्गयतायां भावः । तयोरभावे तु वस्तुमात्रम् । वदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति । वैधर्म्ये दृष्टान्त एतदिति । तल्पनिद्रास्मरणकारणतयेत्यर्थः । संग्रहाय एतल्लक्ष्यत्वाय । केचित्त्विति । अत्र मते जन्यत्वनिवेशसादृश्ये स्मर्यमाणसंबन्धिनिवेशश्चेति पूर्वतो भेदः ।भुजगेन्द्रेति । एकसंबन्धीति न्यायेन तल्पादिस्मरणस्य पयोधिस्मरणजन्यत्वेऽपि तादृशसंस्कारजन्यत्वादसदृशविषयकत्वाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः । अत्रारुचिबीजं तु सादृश्ये स्मर्यमाणसंबन्धित्वनिवेशस्यैवं सति फलाभावः । नहि तादृशसंस्कारजन्यं स्मरणं विसदृशविषयकं संभवति । तथा पयोधिस्मरणस्य सदृशज्ञानत्वेन तेन तल्पादिस्मरणानुकूलसंस्कारस्योद्बोधनसंभवेन तज्जन्यत्वसत्त्वादलंकारत्वमेव तस्येति । सादृश्यज्ञाननिवेशफलमाह-इत एवेति । गुरुभिः श्वश्वादिभिः । परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशेषणम् । इहापि इत्यत्रापि । ननूक्तरीत्यानलंकारत्वेऽपि भावत्वं कुतो न । अव्यङ्ग्यत्व- स्याप्रतिबन्धकत्वात् । अत आह-व्यङ्ग्येति । तस्य सादृश्यमूलकत्वस्य । तामां २०