पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । - रामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एवं विश्रान्तः ॥” इत्यप्याहुः ॥ इति रसगङ्गाधर उदाहरणप्रकरणम् । सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः। यथा- 'दोर्दण्डद्वयकुण्डलीकतलसत्कोदण्डचण्डध्वनि- ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ यथा वा- 'भुजभ्रमितपहिशोदलितहप्तदन्तावलं भवन्तमरिमण्डलकथन पश्यतः संगरे । अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयकविनिष्ठरतेरुत्कर्षकतया स्मरणमलंकारः । आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव । 'एकीभवत्प्रलयकालपयोधिकल्प- मालोक्य संगरगतं कुरुवीरसैन्यम् । सस्मार तल्पमहिपुंगवकायकान्तं निद्रां च योगकलितां भगवान्मुकुन्दः ॥' स्मकावयवावयविभावबोधकत्वेन कथं तदुल्लासोऽत आह–इवेति। आमुखे आदौ ॥ इति रसगङ्गाधरमर्मप्रकाश उदाहरणप्रकरणम् ॥ त्वां प्रकृतं राजानम् । मध्येरणमिति । रणमध्ये इत्यर्थः । वल्गन्मनोहरम् । पाण्डवमर्जुनम् । दन्तावलो हस्ती। अरिमण्डलक्रथनेति संबोधनम् । अमन्देति । तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति । देवेश्वर इन्द्रः । रतेर्भावस्य । लक्ष्यद्वयदाने बीजमाह-आद्ये इति । स्मरणमित्यस्यानुषङ्गः। लक्ष्यमिति । अधिरोहतेर्लक्ष्यमित्यर्थः । नन्वेवमपि वीररसस्यानयोः प्राधान्येन राजनिष्ठस्य सत्वावनित्वमेवात आह-वीरेति । प्रधानोत्कर्षेति । कविनिष्ठरत्युत्कर्षेत्यर्थः । अलमिति । रस-