पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । २१३ द्वितीयो यथा- 'पूर्णमसुरै रसातलममरैः स्वर्गो वसुंधरा च नरैः । रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ।। एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ॥ इति रसगङ्गाधरेऽसमालंकारप्रकरणम् । सामान्येन निरूपितस्यार्थस्य मुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । अर्थान्तरन्यासवारणायोच्यमान इति वचनम् । वा-इव-यथा-निदर्शन- दृष्टान्तादिशब्दैः काव्येषु स्फुटम् । न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात् । उदाहरणम्- 'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥' न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयोः सामान्यविशेषभावेन सादृश्यस्यानुल्लासात् । तथात्वे तु इवादिशब्दानामिव सदृशादि- शब्दानामप्यलंकारेऽस्मिन्प्रयोगः स्यात् । यथा वा- 'अतिमात्रबलेषु चापलं विदधानः कुमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवालिप्तः कुसुमायुधो यथा ॥' इति ध्वनिरयम् । नालंकारः । निरवेति । निष्प्रसरेत्यर्थः । निराधारेति यावत् । एवं उक्तभेदवत् । अस्याप्यसमालंकारस्यापि ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसमालंकार- प्रकरणम् ॥ सुखेति । द्रुततरं बुद्ध्यारूढत्वाय । तयोः सामान्यैकदेशयोः । अवयवावयविभावस्व- रूपमाह-विशेषेति । अन्यथा लक्षणानङ्गीकारे । अनुल्लासादिति । मिथो भेदाभावेन स्फुटमप्रतीतेरित्यर्थः । तथात्वे तु सादृश्योल्लासे तु । अस्योपपत्तिरग्रेऽत्रैव स्फुटीभविष्यति। इवयुतोदाहरणमुक्त्वा यथाघटितमुदाहरणमाह--यथा वेति । गुणेति। कुत्सि-