पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ काव्यमाला। न हीयते एवमनन्वये प्रधानव्यङ्गयसत्त्वेऽपीति न किंचिद्विरुद्धम् । अनन्वयशरीरस्य स्वसादृश्यमात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशोऽपि सुस्थ एव । दीपकाद्यलंकारकाव्ये गुणीभूतस्य व्यङ्गयस्य सत्त्वादस्तु नाम गुणीभूतव्यङ्गन्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलंकतिकाव्ये दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात् । प्राञ्चस्तु नेदमलंकारान्तरमित्यप्याहुः । अयं चासमालंकारो व्यज्यमानो यथा- 'मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्रुध मा कृथाः । चराचरमिदं जगज्जनयतो विधेर्मानसे पदं नहि दधेतरां तव खलु द्वितीयो नरः ॥' अत्र य एतान्तं समयं विधातुर्मानसं नाधिरूढः सोऽग्रेऽपि मानाभावान्नारोहेत, अतः सर्वथैव नास्तीति गम्यते । एवं च व्यज्यमानोऽप्यसमोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालंकार एव । मुख्यतया ध्वन्यमानोऽयं यथा- 'सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः । गणिता गगनलतादेर्गणनायां तन्वि तव सदृशी ॥' अयं क्वचिदुपमानस्य निषेधात्वचिच्च साक्षादुपमाया एव । आद्यस्तूपदर्शितः। अलंकारत्वं न हीयते इत्यस्यानुषङ्गः । एवमलंकारत्वव्यपदेशे साधिते वाच्यालंकारव्यपदेशं तस्य साधयति-अनन्वयेति । शङ्कते-दीपकाद्यलंकारेति । बहुव्रीहिः। अलंकृतीति । तद्युक्तकाव्य इत्यर्थः । तथा चैवमित्याद्युक्तिरयुक्तेति भावः । अप्रस्तुतप्रशंसाया अनेकविधत्वादाह-सादृश्येति।अलंकारान्तरमिति । अत्रोपपत्तिर्व्य॑तिरेकालंकारप्रकरणे स्फुटीभविष्यति । त्वदिति त्वदुपमावर्णनविषये । वाचंयमै मौनव्रतवति । पदं चरणम् । द्वितीयः सहायः । सदृश इति यावत् । ननु निषेधस्य वाच्यत्वेन कथं तस्य व्यङ्गयत्वम्, किं च लिटा भूतनिषेधप्रतिपादनेनात्यन्तिकनिषेधाप्रतीत्या कथमयमत आह-अत्रेति । पद्ये इत्यर्थः । एवं च पदधारणनिषेधस्य शाब्दत्वेऽप्युपमाननिषेधस्य व्यङ्गयत्वमेवेति भावः । प्राग्वदाह-एवमिति । अथ अनन्तरम् । हे तन्वि, तव तुल्या असत्पदार्थगणनायां गणिता । एवं च त्वत्तुल्या असतीति प्राधान्येन ध्वन्यते।