पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्ण विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥ राजस्तुत्युत्कर्षकत्वादत्रासमालंकारः । आत्यन्तिकः क्वाचित्कश्च सदृशनिषेधोऽसमोपमानलुप्तयोर्विषयः । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्रतिष्ठानान्नोपमागन्धोऽपि । यत्तु- "दुण्ढुलन्तो मरीहसि कण्टककलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥' इति । नेयमुपमानलुप्तोपमा । तस्याः संभवदुपमानानुपादानविषयत्वात् । अपि त्वसमालंकारः" इति रत्नाकरेणोक्तम्, तदसत् । मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं क्वापि त्वया तु दुष्प्रापमेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्हति, नासमालंकारः । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति । अथासमालंकारध्वननेनैव चमत्कारोपपत्तेरन- न्वयस्य पृथगलंकारता कथमिति चेत्, सत्यम् । दीपकादेरप्युपमाभिव्य- क्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम् । न च दीपकादावुपमाया व्यङ्ग्यत्वेऽपि गुणीभावात्प्रकते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम् । यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं शेषः । नृपेति संबोधनम् । पदं स्थानं चिह्नं वस्तु वा । आद्ययोर्भेदसंबन्धः । अन्त्येऽभेदः । कालत्रयासत्त्वमुक्तोदाहरणाद्विशेषः । ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्कथमलंकारत्वमत आह-राजेति । अत्र उदाहरणद्वये। ननूपमानलुप्तयैव गतार्थोऽयमत आह-आत्यन्तिक इति । यथासंख्यमन्वयः । नन्वात्यन्तिकनिषेधेऽपि कुतो नोपमानलुप्तात आह-सर्वथैवेति । निषेधाभावादिति । संभवदुपमानत्वाच्चेत्यपि बोध्यम् । अन्यथा तस्येष्टत्वे । एवं वाच्यतायां निषेधस्यासमालंकारे सिंद्धेऽनन्वये निषेधस्य व्यङ्ग्यवेवासमालंकारस्य ध्वननाङ्गीकारे चमत्कारस्तत एवास्तु नानन्वयकृत इत्यनेनैव गतार्थ: स इत्याशयेन शङ्कते-अथेति । प्रतिबन्धा समाधत्ते-सत्यमिति । अत एव पूर्वे दृष्टान्तोक्तिः । दीपकादेरित्यस्य पृथगलंकारत्वमित्यत्रान्वयः । हि यतः । सत्त्वेऽपीति ।