पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० काव्यमाला। यथा वा- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कर्पदोऽधिरुरुहे। कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविमिः ॥' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीर- मणचरणायां तव तुला दीयेतैर्वेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यवसायी इतरपदमहिम्ना व्यज्यते ॥ इति रसगङ्गाधरेऽनन्वयप्रकरणम् । सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः। अयं चानन्वये व्यङ्गयोऽपि तञ्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न प्रथगलंकारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथव्यपदेशभाक् । यथा- 'भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै- रेतद्भूतभवप्रपञ्चविषये नास्तीति किं बूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये- न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥' मरेण न पेदे । न गृहीतमित्यर्थः । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः । अत्र पूर्वार्धे तादृशव्यञ्जकाभावादाह-अत्र कया वेति । पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्गयस्य स्फुटं प्रतीतिः । अत्र त्वस्फुटा । अत एवोदाहरणान्तरदानं(तर) ध्वनयन्नाह-इतरपदमहिम्नेति ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनन्वयप्रकरणम् ।। उपमानिषेध इति । साक्षात्परम्परया वेत्यादिः । तञ्चमत्कारेति । तनिषेधकृतचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदीनेति राज्ञो नाम । एतद्भूतेति । अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता । अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव । तदाह-नूतनेति । प्रसिद्धपश्चभूतातिरिक्तस्वनिर्मितकारणैरित्यर्थः । अत एव सृष्टेरपि न तत्त्वम् । न स्यादेवेत्यर्थ इतीति