पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अत्र त्रिपुरद्विड्वीरते अतिमात्रबलचापलयोविशेषौ । अवलेपकुसुमायुधौ च कुमतिरित्यत्र गुणप्रधानयोः । यथा वा- 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् । मूर्छो गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥' दृष्टान्तो वा । इवादिशब्दप्रयोगे सामांन्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत् 'अमितगुणः-' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुन- कर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धीः। प्रथमान्तविशेप्यकबोधवादिनां तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्तादृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वये नोपपत्तिः स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्गताभिन्नः सद्गुण उपकारानुकूलकृतिमानिति पूर्ववाक्यार्थः । अत्रास्मिन्नर्थे मूर्छा गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्यार्थे गुण इति केषांचित् । इतरेषां तु तादृशकर्तृका तादृशक्रियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश तमतितद्विशेष्ययोरित्यर्थः।विशेषावित्यस्यानुषङ्गिकनिदर्शनपदघटितमाह-यथा वेति। सद्गुणो विपद्गतोऽपीत्यर्थः । दृष्टान्तपदघटितस्यापीदमेवोदाहरणमिति ध्वनयितुं निदर्शनपदस्थाने पाठान्तरमाह--दृष्टान्तो वेति । वाशब्द एवार्थे । इत्यस्य तत्रेत्यादिः । सामान्यार्थप्राधान्यमिति । तस्यापि प्राधान्यमित्यर्थः । तमेव विशेषं प्रदर्शयति- तत्रेत्यादिना। तत्र तेषां मध्ये । तादृशेति । निखिलरसायनराजेत्यर्थः । तादृशेति । अमितगुणेत्यर्थः । एवमग्रेऽपि धीरित्यस्यानुषङ्गः । ननु निन्दितो भवतीत्यादेरेकत्रैवोपादानात्कथमुभयत्र बोधोऽत आह-तत्रापीति । हेत्वन्तरान्यतमति । उग्रगन्धादिरूपहेत्वन्तरेत्यर्थः । अन्यथा तदनन्वये । नोपपत्तिरिति । उपपत्तिर्न स्यादित्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-अस्मिन्निति । केषांचिन्नैयायिकानाम् । इतरेषां च वैयाकरणानाम् । तादृशेति । विपद्गताभिन्नसद्गुणकर्तृकोपकारक्रियेत्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-पूर्ववाक्यार्थ इति । मूर्छा गतादिरूपः पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः । - -