पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २०७ द्वितीयो यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुभग तस्या वामार्धे दक्षिणार्धस्य ॥' तृतीयो यथा- गन्धेन सिन्धुरधुरंधरवक्रमैत्री- मैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्वं कथं त्रिनयनाचलरत्नभित्ति- स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥ एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः।" इति रत्नाकरेणोक्तम् । तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्माति-' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि त- थात्वापत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्च । तादृशप्रतीतिफलकैकोप- मानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोभिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः । न च स तदेकदेशस्तत्प्रतिबिम्बश्चेत्येतदन्य- तमप्रतियोगिकसादृश्यमनन्वयः इति क्वातिव्याप्तिरव्याप्तिर्वेति वाच्यम् । नास्त्यन्वयोऽस्येति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासं- तस्य । तत्त्वेति । उपमानत्वेत्यर्थः । महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषत्ववि- वक्षायां षष्ठी । अत्रोपमेयं समुदिता नायिका । गन्धेनेति । हे सिन्धुरधुरंधरवक्र गज- श्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते त्वया. गन्धेन सुगन्धेन्. मैत्री न शिक्षिताः । यद्वा गन्धेन संबन्धेन लेशेन गर्वेण वा । अपिर्गन्धपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरत्नखचितभित्त्याधारकस्वप्रतिबिम्बेषु यूथ- पतित्वं दिग्गजत्वं कथमेषीत्यर्थः । उपमानान्तरविरह इति । तत्राये स्फुट एव । द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्ध्यति । अन्यथा तत्सदृश- पदार्थावयवेनैवैतदवयवस्योपमां दद्यात् । तृतीयेऽपि प्रतिबिम्बस्योपमानत्वकल्पनयान्य- स्योपमानस्याभावो गम्यते। तथात्वेति । अनन्वयत्वेत्यर्थः । इष्टापत्तावाह-यद्यर्थेति । तादृशेति । उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र । तत्त्वे अनन्वयत्वे । पुनःशब्दस्तुशब्दार्थे । भिन्नयोरिति । तथा च द्वितीयविशेषणाभाव इति भावः । तद्भेदत्वेति । अनन्वयविशेषत्वेत्यर्थः । सेति । उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न देयम् । तद्विरहस्य नान्तरीयकत्वादिति भावः । विरहेणेति । अबाधितत्वादिति भावः ।