पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
काव्यमाला।

एवम्—

'लङ्कापुरादतितरां कुपितः फणीव
निर्गत्य जातु ष्टतनापतिभिः परीतः।
क्रुद्ध रणे सपदि दाशरथिं दशास्यः
संरब्धदाशरथिदर्शमहो ददर्श॥'

एवं कर्तृणमुलादावप्यूह्यम्।

'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति।
विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि॥'

 अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः। मुखवाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता।

'एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे।
केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः॥'

 अत्र वाचकधर्मोपमानां लोपः। अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहृताः।

 यत्तु-"तेन तदेकदेशेनावसितभेदेन वा उपमानतया कल्पितेन सादृश्यमनन्वयः। उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधर्म्यापादनमेकोऽनन्वयः। उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः। उपमेयस्यैव प्रतिबिम्बत्वादिनाभेदेनावसितस्य तत्त्वकल्पनं तृतीयः।

 आद्यो यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि।

——————

हरति–एवं लङ्केति। ईदृशो दशास्यो रणे क्रुद्धं सपदि दाशरथि संरब्धदाशरथितुल्यं ददर्शेत्यर्थः। संरब्धदाशरथिरिव दृश्यते इति कर्मणि णमुल् । धर्मवाचकलुप्तमुदाहरति–अम्बेति। अत्र सर्वत्राचारे क्विप्। अम्बरमाकाशम्। ननु कोऽसौ वाक्यार्थों यदवयवास्त्रयोऽनन्वया अत आह–मुख इति। मुख्य इत्यर्थः। 'मुख्व' इति पाठस्तूचितः। ननु मालोपमा नैवास्ति पूर्वमनुक्तत्वादत आह–एषा चेति। मालोपमा चेत्यर्थः। अत्रैव अनन्वयप्रकरण एव। वाचकधर्मोपमानलुप्तमुदाहरति—एतेति। तज्जै रामस्वरूपज्ञैः। न्यूनतां निराचष्टे–अत्र चेति। संभवेऽप्याह–अह्रद्येति। तेनेत्यस्यार्थमाह–उपेति। अमुखेति। अमुख्येत्यर्थः। तदेकदेशेनेत्यस्यार्थमाह–उपेति। तथैव उपमेयवत्। अवसितभेदेनेत्यस्यार्थमाह–उपेति। प्रतिबिम्बोऽत्र लौकिकः। अवसितस्य निश्चि-