पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। त्मकत्वं धर्म श्रीगङ्गायां व्यनक्ति । उभयत्रापि श्रीगङ्गाविषयकरत्युपस्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति । तस्मिंश्च सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकामावात्सदृशान्तरव्यवच्छेदापत्तेश्चानन्वय एव नस्यात् । स च पूर्णों लुप्तश्चेति तावद्विविधः । पूर्णस्तूपमावत्षड्विधोऽपि संभवति । यथा- 'गङ्गा हृद्या यथा गङ्गा गङ्गा गङ्गेव पावनी । हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ।। गुरुवद्गुरुराराध्यो,गुरुवद्गौरवं गुरोः ॥' लुप्तेऽपि धर्मलुप्तः पञ्चविधोऽपि संभवति । प्रागुक्ते सार्धपद्ये धर्मवाचकपदमपहाय पदान्तरदाने तथा वाचकलुप्तः । 'रामायमाणः श्रीरामः सीता सीतामनोहरा । ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ॥' इत्यत्र क्यङ्समासयोः। कविनिष्ठेत्यादिः । अत्र उभयत्र । बाधकाभावादिति । चो वाक्यालंकारे, हेतौ वा । सदृशान्तरव्यवच्छेदाप्रतिपत्तावन्वये बाधकाभावे हि हेतुः । स च अनन्वयश्च । षड्विधोऽपीति । श्रौतार्थयोस्तयोः प्रत्येकं वाक्यसमासतद्धितगामित्वेनेति भावः । गङ्गेति । अत्राद्यपादे श्रौतो वाक्यगः पूर्णः । द्वितीयपादे समासगः श्रौतः पूर्णः। तृतीयपादे आर्थों वाक्यगः पूर्णः । तुर्यपादे समासग आर्थः पूर्णः । पञ्चमपादे 'तेन तुल्यं-' इति वतेः सत्त्वादार्थः स तद्धितगः पूर्णः । षष्ठपादे 'तत्र तस्येव' इति वतेः सत्त्वाच्छ्रौतस्तद्धितगः पूर्ण इति ध्येयम् । 'लुप्तेष्वपि' इति पाठः। भेदेष्विति शेषः । निर्धारणे एकवचनासंगतेः। पञ्चविधोऽऽपीति। श्रौतो वाक्यगः, आर्थो वाक्यगः, श्रौतः समासगः, श्रोतः समासगः, आर्थः समासगः, आर्थस्तद्धितगश्चेत्येवमित्यर्थः । पूर्वं तेषामेवोदाहृतत्वादिति भावः । पदान्तरेति । 'गङ्गा राजन्यथा गङ्गा गङ्गा गङ्गेव सर्वदा । हरिणा सदृशो विष्णुर्विष्णुतुल्यः सदा हरिः॥ गुरुवद्गुरुरास्तेऽस्मिन्मण्डले गुरुवद्गुरोः॥' इति न्यास इत्यर्थः। कर्मणमुल्गतमुदा-