पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गमायाभिनवेति प्रवाहविशेषणम् । नह्यत्र सादृश्यवर्णनस्य फलं द्वितीय- सब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः । 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः ॥' इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति । अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः । उदाहरणममृत(पीयूष)लहर्याख्ये मदीये गङ्गास्तवे- कृतक्षुद्राघौघानथ सपदि संतप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरिता- न्नरानूरीकर्तु त्वमिव जननि त्वं विजयसे ।' यथा वा--- 'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ॥' पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यङ्गय इति विशेषः । तु- शब्दोऽयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवा- प्रत्युदाहरणद्वये । द्वितीयसब्रह्मेति । द्वितीयसदृशेत्यर्थः । अनन्वय्यर्थनिबन्धनवशाद्धि द्वितीयसदृशव्यवच्छेदः फलति । नहि धर्मान्तरावच्छिन्नस्वस्य धर्मान्तरावच्छिन्नस्वेन साधर्म्यमनन्वयि । अत एवोपमेयतावच्छेदकोपमानतावच्छेदकयोर्भेद एव साधर्म्यघटकः । न तु धर्मिणोः इत्युक्तं प्राक् । एवं चानन्वय्यर्थनिबन्धनप्रयोज्यद्वितीयसदृशव्य- वच्छेदफलकसादृश्यवर्णनमनन्वयः । एकोपमानोपमेयकत्वविशेषणं चात्रैवार्थे तात्पर्यग्राह- कम् । अन्यथा धर्मिभेदादेव तत्र वारणेन तद्वैयर्थ्यं स्पष्टमेवेति भावः । तदाह-तस्येति । तद्वयवच्छेदस्येत्यर्थः । असत इति। तथा च धर्मिभेदः स्पष्टोऽत्र । नास्तीति । अन्यथा तावत्पर्यन्तधावनं व्यर्थं स्यादिति भावः । अथ अल्पपापकरणानन्तरम् । सपदि तत्कालमेव । न तु कालान्तरे । प्राक्तनसुकृतोद्रेकादिति भावः । अपीति । प्रायश्चित्तप्राप्तिविषयत्वातिक्रान्ताचरणकानपीत्यर्थः । नरानिति पूर्वार्धेऽपि विशेष्यम् । निष्पापपत्वेन स्वीकर्तुम् । जननि गङ्गे । उदाहरणान्तरदाने बीजमाह-पूर्वेति । विजयसे इति वाच्यः सर्वोत्कर्षरूप इत्यर्थः । इह तु इति । स एवानुगामीति शेषः । पूर्ववदत्र स्पष्टवैलक्षण्याभावादाह-तुशब्दोऽयमिति । 'तुशब्दोऽत्र' इति पाठान्तरम् । रतीति।