पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । ते सर्वेऽप्युपमात्वाकान्तत्वादस्यामपि बोध्याः । अयं पुनरन्योऽपि दोषः- यदेकोपमावैलक्षण्यमपरस्यामुपमायाम् । यथा--'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रोत्यार्थीकृतं वैलक्षण्यम् । 'कमलति वदनं तस्याः कमलं वदनायते जगति' क्विपक्यकृतमत्र वैलक्षण्यम् । एवमत्रैव 'पद्मं वदनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवा- चकवैलक्षण्यम् । एवं प्रकारैरनेकैर्वैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोषः ॥ इति रसगङ्गाधरे उपमेयोपमाप्रकरणम् । अथानन्वय:- द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः। स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः। 'लोहितपीतैः कुसुमैरावृतमाभाति भूर्भृतः शिखरम् । दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ।' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिंश्चित्समये दावज्वालाकीर्णेनोपमीयते । इति तत्सादृश्यवारणाय भूतान्तम् । इदं वा प्रत्युदाहरणम्- 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः । अभिनवसुरदीपिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥' अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं स्वात्मनैव सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते । संप्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताववास्या एव भेद इति प्रतिज्ञावाक्ये उक्तम् । तदवृत्त्यत्र दोषमाह-अयं पुनरिति । इति वेति । कमलमित्यादिः । निर्माणे इत्यस्यानुषङ्गः । उपसंहरति-एवमिति । यदीत्यनेन तदभावेऽदुष्टत्वमेवेति सूचितम् ॥ इति रसगङ्गाधरमर्मप्रकाश उपमेयोपमाप्रकरणम् ।। शुद्ध इति । स्ववैचिच्यमात्रविश्रान्त इत्यर्थः । भूभृतः पर्वतस्य । कदाचित्समये तैराकीर्ण स्वमिवेत्यर्थः । स्फुटत्वाय प्रत्युदाहरणान्तरमाह-इदं वेति । अत एवाह- अत्रापीति । स्वात्मनैव पदाम्बुजद्वयेनैव । संप्रति वर्णनकाले । तस्य प्रवाहस्य । अत्र