पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भवात् । अपि चानन्वये 'गगनं गगनाकारम्' इत्यादावुपमेयस्यैवोपमानत्वे- नोपन्यासादुपमेयातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सि- ध्यति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानुन्वयस्य फलं भवितुमर्हति । तस्या अनुपमेयत्वात् । यदपि चालंकारसर्वस्वकृता 'अनन्वयध्वनित्वमत्र भविष्यति । अन्यथालंकारध्वनेर्विषयापहारः स्यात्' इत्युक्तम्, तदपि तुच्छम् । अस्य ह्युपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम् । प्रकृते च वामार्धदक्षिणार्धयोस्तद्बाधितमित्युक्तमेव । कान्तायाः पुनरुपमाननिषेधस्य व्यङ्गयत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्ययात् । नहि निरुपमत्वप्रतीतिषु सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रतीतिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारध्वनौ च व्यभिचारात् । तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि । यच्च "अयमनन्वयो व्यङ्गयोऽप्यस्ति । यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।। अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्गया ननु रूढमेवानन्वयपदमत आह-अपि चेति । अत्र द्वितीयभेदे च । निरुपमत्वं एषूपमानान्तरेत्यादिना प्रतिपादितम् । ननु तेन ग्रन्थेन कान्तायां निरुपमत्वं प्रतिपादितं न तत्रात आह-कान्तेति।अनन्वयध्वनित्वमिति। तद्वामार्धे दक्षिणार्धमनुहरतीत्युच्यतां सोऽनुहरतीति व्यङ्गयमिति भावः । एवं चास्य हीत्यादिना किमुच्यते तद्विचार्य सहृदयैः। ईदृशव्यङयव्यञ्जने उपायाभाव इत्यपि कश्चित् । अत्र द्वितीयलक्ष्ये । हि यतः । अस्यानन्वयस्येदं स्वरूपमित्युक्तमतस्तत्तुच्छमित्यर्थः । तदुपपादयति-प्रकृते चेति । तत् अभिन्नोपमानोपमेयकं सादृश्यं तयोर्भेदात् । ननु कान्तागतनिरुपमत्वस्य व्यङ्ग्यत्वेन तस्या एवोपमेयाया उपमानत्वकल्पनेन तादृशसादृश्यप्रतीतिस्तयोस्तस्य बाधितत्वेऽप्य- स्त्येवात आह-कान्ताया इति । सादृश्येऽप्यन्वयः। कल्पितोपेति । स्तनाभोगे इत्यत्रेत्यर्थः । अतीति । यद्यपीतीत्यर्थः । उपसंहरति-तस्मादिति । सैव तदागमन-