पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः १९७ इयं च तावद्विविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धर्मेरनेकधा । अनुगामी धर्मो यथा-- 'निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः । शिव इव गुरुगरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥ बिम्बप्रतिबिम्बभावमापन्नो यथा- रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः । लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥ अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्मः । उपचरितो यथा- 'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम् । प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥' केवलशब्दात्मको यथा- 'अविरतचिन्तो लोके तृक इव पिशुनोऽत्र पिशुन इव च वृकः। भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ॥' व्यक्तधर्मों यथा- 'वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः । सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः ॥' अत्रापारत्वादिर्व्य॑ज्यमानो धर्मः । एषा सर्वापि स्फुटे वाक्यभेदे प्रपञ्चिता। क्यङादिवैलक्षण्यमिव दुष्टमिति चिन्त्यमिदम् । व्यक्तेति । व्यञ्जितेत्यर्थः । निगमेति । वेदसमूहे इत्यर्थः । तथा गरीयान् । विशेषणेति । स्तबकवक्षोजयुगलेत्यादिः । एव- मग्रेऽपि । वस्त्विति । वस्तुतस्तयोरेकत्वादिति भावः । पुटितः संपुटितः । कुलिशमिति । अत्र पृथिवीनिष्ठकठिनत्वस्य मनसि सुधानिष्ठमाधुर्यस्य प्रकृतावुपचारः । अवीति । निरन्तरं चित्तत्वस्य पिशुनवृत्तित्वेऽपि वृकावृत्तित्वात्सकृपत्वस्य साधुचित्तवृत्तित्वेऽपि भारतग्रन्थावृत्तित्वाच्छब्द एव समानोऽत्र धर्मः। न चोपचरितत्वं शक्यम् । एकनिष्ठस्यान्यत्रारोपे तत्त्वेऽपि प्रकृते तत्त्वेनाप्रसिद्धत्वात् । अन्तरा आकाशमध्ये, समुद्रमध्ये च । आदिना दुर्घटत्वं सेतुस्वर्गङ्गयोः संगृह्यते । व्यक्तपदार्थ सूचयितुमाह-