पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । अथास्या एव भेद उपमेयोपमा निरूप्यते-- तृतीयसदृशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतं परस्परसुपमानोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा । 'तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी' इत्यत्र परस्परोपमायामतिव्याप्तिवारणाय भूतान्तम् । अत्र तानवगौरिमभ्यामनुगामिधमभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति । एकेन धर्मणैकप्रतियोगिके परानुयोगिके सादृश्ये निरूपितेऽपरप्रतियोगिकस्यैकानुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्देन पुनस्तदुक्तिः स्वनैरर्थक्यपरिहाराय तृतीयसहशव्यवच्छेदमाक्षिपति । प्रकृते चैकेन तानवरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीय- सादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम् । 'सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम् । अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक् ।।' इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवारणाय परस्परमिति । लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति । अथेयमुदाह्रियते- 'कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम् ॥ उपमाद्वयमिति । यतोऽतः पुनर्वर्ण्यमानमिति शेषः । एकेनेत्यस्य यत' इत्यादिः । तदर्थे तेन धर्मेण सादृश्यसिद्ध्यर्थम् । सदृशीति । व्यक्तिरित्यर्थः । समस्तेति । सर्वेत्यर्थः । विभाव्यते विभावनाविषयीक्रियते । मतिमिति । तदेत्यादिः । तदैवं बुद्ध्यारूढं भवति कौमुदी ईषत्तवसदृशीतीत्यर्थः । अत्र कौमुदीभिन्ने कान्तासादृश्यनिषेधस्य शब्दतः कथनादीषत्सादृश्यस्य चन्द्रिकायां कथनात्तृतीयसदृशव्यवच्छेदः फलितस्तदाह- तृतीयेति । परस्परमिति । कौमुदीसादृश्योक्तेस्तत्राभाव इति भावः । दुष्टेति । घट इव पटः, पट इव घटः, इत्यादेस्तु सामान्यप्राप्तालंकारत्वेनैव निरास इति भावः । तवाम्बुजं सममिति । अत्र तुलितं सममित्युपमावाचकवैलक्षण्यं वक्ष्यमाणक्विप्-