पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९८ काव्यमाला। आर्थे तु वाक्यभेदे- 'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव । इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना ॥ अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चती वाक्यद्वयं विचारकमुल्लसते । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः संभवन्ति । ते चामुयैव दिशा सुबुद्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते । चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्स्योपमेयोपमा मता ॥ इति स्वयं लक्षणमाहुः । अस्यार्थः संक्षेपेण सपदकृत्यस्तदुक्तरीत्या सहृदयानां सौकर्यायोच्यते--अन्योन्येनेति । अन्योन्यप्रतियोगिकत्वविशिष्टाव्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्, परस्परनैरपेक्षस्यात्र वाकारेणाभिधानात्, एकध- व्यज्येति । वाक्यभेद इति । उदाहियत इति शेषः । वैधसे विधातृनिर्मिते । उदञ्चति प्रकाशयति । परस्परात्मना परस्पररूपतया । इदं नयनम् । एतेन नयनेन । एवमप्रेऽपि । विचारकमिति। विवरणरूपमित्यर्थः । एवमनुगाम्यादिधर्मभेदवत् । अस्या उपमेयोपमायाः । असंभावितभेदवारणाय प्रायश इति । दिशा रीत्या । प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याड्विविधैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्यत्राव्याप्तिः । 'रजोभिः स्यन्दनोद्धूतैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगित्वमित्याशयेनाह- अन्योन्यप्रतीति । लक्षणाया असंभवादाह-शक्त्येति । इवादिसत्त्वे इति भावः । विश्रान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । शक्तीति । सप्तंपदे (?). त्यादिः । ननु मिथो निरपेक्षत्वं न निविष्टमत: आह-परस्परेति । अन्यथा पक्षान्त-