पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ काव्यमाला। अत्र क्ष्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषप- र्वभ्यां राज्ञ उपमयोरुपायः । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवि- त्वे इत्येवरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयोः पार्थ- क्याभावादिति चेत्, क्ष्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वाव, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात् । केवलं शुद्धपरम्परिता यथा- 'राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः । दुमाणामिव लोकानां मधुमास इवाभवत् ॥' मालारूपशुद्धपरम्परिता यथा- 'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् । ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥' उपमानयोः परस्परमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता। प्रातिकूल्ये उपायता यथा- 'राजा दुर्योधनो नाम्ना सर्वसत्त्वभयंकरः । दीपानामिव साधूनां झञ्झावात इवाभवत् ॥' अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव । श्रयपरिहारस्तु रूपकप्रकरणे वक्ष्यते । चस्त्वर्थे केवलपदोत्तरं वा योज्यः । महीभृतां पर्वतानां राज्ञां च । गणे समूहे । रत्नसानुः सुमेरुः । काव्ये शुक्रे कवित्वे च । वृषप- वेव दैत्यराज इव । तेनैव एकशब्दोपात्तत्वेन साधर्म्येण । मधुमास इव चैत्रमास इव । अत्र मालारूपताविरहात्केवलत्वम्, क्ष्लेषाभावाच्छुद्धत्वम्, अन्योपायतारूपत्वात्परम्परि- तत्वमिति बोध्यम् । मृगतामिति । मृगा इवाचरतां सर्वभूपानां मध्ये हरयन्सिह इवाचरन्वृक्षा इवाचरतां तेषां मध्ये पटीरयंश्चन्दनद्रुरिवाचरंस्त्वं ऋक्षतां नक्ष. प्राणीवाचरतां तेषां मध्ये भूतले चन्द्रवदाचरसीत्यर्थः । अनुकूल्ये इति । अनुकूलता- ख्यगुणे सतीत्यर्थः । मृगतां हरयन्नित्यत्रापि मृगाधिपत्वादानुकूल्यमेवेति बोध्यम् । एवं प्रातिकूल्ये शुद्धपरम्परितामुदाहरति-एवमिति । कमलवदाचरतां सतां मध्ये शिशि- रर्तुवदाचरतानेन राज्ञा अधुना दर्भवदाचरतां सर्वधर्माणां मध्ये विदर्भदेशवदाचरितमि-