पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १८५ एवम्- 'सरोजतामथ सतां शिशिरर्तवताधुना । दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥' इत्यादौ मालारूपतायामपि । उपमेयानां स्वस्वोपमानानुपमानानां रशनोपमा । यथा- 'वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्तिः कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥ इयं धर्मभेदे। धर्मैक्ये तु- 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः । सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥ धर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम् । इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वांगगोचरं भूमानं भजमाना नेयत्तामहतीति दिक् । एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहतालं- कारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंका- रभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्श- निबन्धनः । क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः । क्वचिदर्थशक्तिमू- लानुध्वननविषयः । आद्यो यथा- 'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥ त्यर्थः । स्वस्वोपमानानुपमानानामिति । इदं विशेषणमुपमेयोपमायामतिव्याप्तिवार- णार्थम् । भूधरा इति । परमोन्नतविग्रहत्वमेकोऽत्र धर्मः । एषैव च उपमैव । परीति। त्यक्तालंकारत्वकेत्यर्थः । नन्वेवं कथं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति । धर्ममात्रेति । उपमात्वेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । अविरलेति । अयं राजा सार्वभौमः सर्वभूमीश्वरः । उदग्दिग्गजश्च । धारापदं व्यर्थमिति केचित् । 'स कीचकैः-' इतिवत्प्रयोग इरत्यन्ये । धनदातॄणामप्रे पूजितमूर्तिः। कुबेराग्रे पूजितमूर्तिश्च । २४