पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १८३ अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया अङ्गोपमा- भिनिष्पाद्यमानत्वाच्च साङ्गा भवति । एकदेशविवर्तिनी सावयवा यथा- 'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः । कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्विमणासि कारणम् ॥ अत्रोत्तरार्धे उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमाशब्देनानभिहिताप्यङ्गोपमाभिरा- क्षिप्ता प्रतीयते । इत्येकदेशविवर्तनादेकदेशविवर्तिनी । केवलश्चिष्टपरम्परिता यथा- “नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः । सुरालये खलु क्षीबा देवा इव विरेजिरे ॥' अत्र क्ष्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोप- माया उपाय इति क्ष्लिष्टपरम्परिता । अन्योन्योपायतारूपस्यैव परम्प- रितत्वस्येह परिभाषणात्, मालारूपताविरहाच्च । केवला मालारूपक्ष्लिष्टपरम्परिता यथा- 'महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥ मञ्ज हसितं यस्याः । सकलः पूर्णकल: कलाकान्तश्चन्द्रस्तद्वद्वदनश्रीर्यस्याः । अत्र उदाहरणद्वये । सर्वेषामवयवरूपाणामवयविरूपाणां च । तथा च तेषां तदभिधेयत्वमेव, समस्तवस्तुविषयत्वमिति भावः । अङ्गोपमेति । अवयवोपमेत्यर्थः । एवमग्रेऽपि । साङ्गा सावयवा। तथा चोपमानां सापेक्षत्वं सावयवत्वमिति भावः । मकरा मत्स्याः। कविता अमृतमिव । कीर्तिश्चन्द्र इव । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । नगरान्तरिति । महेन्द्रवत्पूजिता श्रीर्यस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खलु विरेजिरे इत्यर्थः । गारस्योपमेति । सुरालये इतीति भावः । नन्वेवं क्ष्लिष्टत्वेऽपि कथं परम्प- रितत्वमत आह-अन्योन्योपायतारूपस्यैवेति । सावयवायां परस्परसमर्थकत्वेऽपि नोपायता । ज्योत्स्नायां हसितत्वारोपं विनापि औज्ज्वल्यादिना सीतायां राकासाम्य- सिद्धेः । इह तु मदिरागारेषु सुमेरूपमां विना क्षीबेषु देवोपमायां न किंचित्साधर्म्यम् । तस्मिश्च तादृशसादृश्यप्रतीतिमूलाभेदमापन्नसुरालयवृत्तित्वमेव तथा । मदिरागारेषु सु- मेरूपमायां च क्षीबेषु देवोपमा विना न साधारणधर्म इत्यन्योन्योपायता । भन्योन्या- -