पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ काव्यमाला। चेत्यष्टधा । तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमा- न्तरनिरपेक्षत्वम् । इयं च शतशः प्रागेवोदाहृता । मालारूपनिरवयवा यथा- 'आह्नादिनी नयनयो रुचिरैन्दवीव कण्ठे कृतातिशिशिराम्बुजमालिकेव । आनन्दिनी हृदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति ॥ यथा वा- 'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी । विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥ पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु विम्वप्रतिबि- म्वभावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः । अत्राधिकदीप्तिरूपे वा- क्यार्थे उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलङ्कताभिव्यञ्जकत्वेन भस्मीभवनहे- तुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्बता । मालारूपत्वं चात्रैकोपमेय- कानेकोपमासामानाधिकरण्यात् । समस्तवस्तुविषया सावयवा यथा- 'कमलति वदनं यस्या मलयन्त्यलका मृणालतो बाहू । शैवालति रोमावलिरद्रुतसरसीव सा बाला ॥' यथा वा- 'ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्त [कान्त]वदनश्रीः । राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥' तस्य द्वैविध्यादेव । इयमपि उपमापि । तत्र तासां मध्ये । इयं च केवलनिरवयवा च । ऐन्दवीति । ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति । राक्षसनिवासेत्यर्थः । द्वितीये तमुपपादयति-अत्रेति । द्वितीयपद्य इत्यर्थः । सूर्यमण्डलस्येति । लङ्काप्रतिबिम्बते- त्यत्रान्वयः । अमायां रावणवधे सति प्रतिपदि सीतानिर्गम इत्येकदेशकालावच्छिन्नत्वं बोध्यम् । सामानाधिकरण्यादिति । उपमान्तरनिरपेक्षत्वान्निरवयवत्वमित्यपि बो- ध्यम् । कमलतीति । अत्र चतुर्ष उपमानादाचारे क्किप् । ज्योत्स्नेति । ज्योत्स्नाभं