पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १८१ स्यात् । 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामान्य- रूपस्य बिर्शेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरण- समानाधिकरणेऽङ्क उदाह्नतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशे- षस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारा- दुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदाहियते तद्वदत्रापीति तत्प्रसङ्गे विवेचयिष्यामः । यच्चाप्पदीक्षितैः 'लुप्तायां तु नैवं भेदाः । तस्यां साधारणधर्मस्यानु- गामितानियमात्' इत्युक्तम्, तन्न । 'मलय इव जगति पाण्डुर्वल्मीक इवा- धिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाञ्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधनादीनां च बिम्बप्रतिबिम्बमावस्यैव प्रतिपत्तेः । न च शब्दे- नोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः । श्रौतत्वा- र्थत्वाभ्यां बिम्बप्रतिविम्बभावस्य द्वैविध्यौचित्यात् । अत एवाप्रस्तुतप्रशं- सादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संग- च्छते । इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तव- स्तुविषयसावयवा, एकदेशविवर्तिसावयवा, केवलश्विष्टपरम्परिता, मा- लारूपक्ष्लिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता वोपपादनमित्यर्थद्वयम् । विनिगमनाविरहात् । इति न दोष इति चिन्त्यमिदमिति बोध्यम् । उक्तार्थोपपादनपरोपमायास्तदुक्तमुदाहरणं दूषयति-अनन्तेति । 'अनन्त- रत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रति- पाद्यस्य । तत्त्वेनानिर्दिष्टत्वे हेतुमाह-सामान्येति। अनवतारादिति । अग्रे तथा चेति शेषः । अलंकारोऽयमतिरिक्त इति । 'अदत्त्वा मादृशो मा भूद्दत्त्वा त्वं त्वादृशो भव' इत्यभिन्नधर्मिकोपमायामुपमानतावच्छेदकोपमेयतावच्छेदकभेदेनोपमितिक्रियानिष्पत्तेरुप- मालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापि सामान्यधर्मविशेषधर्मयोस्तयोर्मेदेन तन्निष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयाच्चिन्त्यमेतत् । 'उदको- कारे दधीकारस्य य इति' इति पाठः । तत्प्रसङ्गे उदाहरणालंकारप्रसङ्गे । अत एव