पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । प्यदृष्टाया आननं त्वत्सद्दशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा- नायां चन्द्रविषयायां वक्तृगतायामसूयायामलंकारः। एतेनाप्पदीक्षितै- रुपमालक्षणे दत्तमव्यङ्गयत्वविशेषणमयुक्तमेव । नहि व्यङ्गयत्वालंकार- त्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्ग्यतायां तु प्रधानत्वालंकार- त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाङ्क्षीदित्युपस्कारकत्वेन पुनर्विशेष- णीयम्, न त्वव्यङ्गयत्वेन । प्रागुक्तायामसूयालंकारोपमायामव्यात्यापत्तेः। विशिष्टोपमादिस्थले विशेषणाघुपमानां वाच्यसिद्धचङ्गतया गुणीभूतव्य- ङ्गयत्वम्, सिद्धार्थस्योपस्करणाभावात्तु नालंकारत्वमिति न काप्यसंगतिः । यच्चापि "सेयमुपमा संक्षेपतस्त्रिविधा-क्वचित्स्ववैचित्र्यमात्रविश्रान्ता । यथा 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । क्वचिदुक्तार्थोपपादनपरा । यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ” इति तैरेव द्रविडशिरोमणिभिरभ्य- धीयत । तदप्यहृद्यमेव । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात् । अलंकारभूतोपमासु स्ववैचित्र्यमात्रविश्रान्ताया उपमायाः संग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः । अहो महदेवेदमन्याय्यम्-यदलक्षणीयायाः संग्रहः, लक्षणीयायाश्चासंग्रह इति । प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठर- वेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्गयोपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिर्विरुद्धा स्यान्वयः । प्रतीयमाना उपमेति । अत्रोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम् । मूढपदस्वारस्यात् । चमत्कारातिशयाच्च। किं हृष्यसीत्येतत्स्वारस्याच्चेति केचित् । एतेनेति । एतेनापीत्यर्थः । अपिना प्रागुक्तदूषणसमुच्चयः । तैरेवेति । अप्प- दीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः । इयं स्ववैचित्र्य- मात्रविश्रान्ता । विरुद्धा स्यादिति । वस्तुतस्तु उपमासामान्यलक्षणस्यापि प्रकृतत्वे- नोपमासामान्यस्यैवायं विभागः । उपमानोपमेयतावच्छेदकयोर्भेदाच्चास्त्येवोपमितिनि- घ्पत्तिः । अत एव सेयमुपमेत्येवोक्तम् , न त्वलंकार इति । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तु उक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मकशिशिरी. करणस्य कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपादनमुक्तार्थे