पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १७९ परम्परया यथा- 'नदन्ति मददन्तिनः परिलसन्ति वाजिब्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणघुतिः॥' अत्र मुख्यार्थस्य राजविषयायाः कविरतरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारि- का नयनकोणशोणघुतेर्युगान्तदहनोपमा । इयं चेवयथावादिशब्दैर्वा- चकैः प्रतिपादिता वाच्यालंकारः । लक्ष्यापि चालकुर्वाणा दृश्यते । यथा- 'नीवी नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजद्दशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदरायाः ॥' अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानां- शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च त- त्रोपमा प्रतीयमाना। अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन प्रतीयमानायाः स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लादिश- ब्दानां तदीयन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादेः प्रयोजनस्य स- च्वात्सादृश्यवति लक्षणैव, न व्यञ्जना । मुख्यार्थस्य बाधात् । प्रयोजने पुनर्व्यञ्जनैवेति । क्वचितचङ्गयापि चेयमुपमालंकारः । यथा- 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्र प्रत्येषोक्तिः । अत्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वया- अवरोहतिलक्ष्यस्येति । एतत्पदलक्ष्यस्येत्यर्थः । व्यञ्जनैवेति। इत्यस्य बोध्यमिति शेषः । विनिमालितमिति। विशेषेण दृष्टमित्यर्थः । अत्र चेति । प्रतीयमानेत्यत्रा-