पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। १७८ कान्तागतायामुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावा- पन्ननमननम्रीभवनविशेषणयोर्बिम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्म- त्वम् । एवं तेनैव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायाम- धरपल्लवयोः । न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमे- यस्य, तस्य सदृश इत्यादौ च तत्संबन्धिसादृश्याश्रयस्यौपमानस्य प्रतीतेः सिद्धत्वात्मकृते च सद्दशीति शब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम् । सद्दशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमान- त्वेऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे बाधकाभावात् । एव- मन्येऽपि प्रकाराः। 'यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका । यथा चन्द्रसमश्चन्द्रस्तथा त्वं सद्दशी तव ॥' एभिर्भेदैः प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता व्यङ्गन्यत्वे व्य- ङ्गयधर्मा धर्मलोपं गदितैव । लक्ष्यतायां यथा- 'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः । क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ॥' इत्यत्रोपमानमहिम्ना शान्तमूर्त्यादिशब्दैविरुद्धा धर्मा लक्ष्यन्ते । इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारका- न्तरोपस्करणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता । निरूपकतेति । प्रतियोगितेत्यर्थः । तेनैव संबन्धेनेति । प्रतियोगितासंबन्धेनेत्यर्थः । अधरपल्लवयोरिति । कान्तालताविशेषणयोबिम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्म- त्वमित्यर्थः । तन्निरूपितेति । तत्प्रतियोगिकेत्यर्थः । सादृश्याश्रयस्य तत्प्रतियोगिन इत्यर्थः । सधर्माणां भेदानामिति । साधारणधर्मभेदसहितानां पूर्णालुप्तादिभेदाना- मित्यर्थः । व्यङ्गयत्वे इति । धर्माणामित्यस्यानुषङ्गः । लक्ष्यतायामिति । धर्माणामि- त्यादिः । महिम्नेति । तेषु शान्तमूर्तित्वादेरभावादिति भावः। धर्मा लक्ष्यन्त इति । लक्ष्यतावच्छेदकेऽपि लक्षणेति मतेनेदम् । इयं चेति । उपमेत्यर्थः । तत्र नाभौ ।