पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १७७ क्वचिद्धेतुहेतुमद्भावेन । यथा- 'खलः कापव्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किमिर्लॊकैर्विषेणाशीविषो यथा ॥' अत्र कापट्यं विषं च बिम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगााम- नि हेतुः। यथा वा- 'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी। अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥' अत्र रूपवत्त्वदुःखदायित्त्वयोईयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्ब- प्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारा- न्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम् । यथा- 'यथा लतायाः स्तबकानतायाः स्तनावनम्ने नितरां समासि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सद्दशी तवापि ॥ अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्वे मा विध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिको- पमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते हे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिम्बप्रतिबिम्बभावमापन्ने सा- धारणधर्मतया स्थिते । तत्र निरूपकतासंबन्धेन प्रधानीभूतोपमोपमान- भाविशेषयोरैक्यप्रतिपत्तये वानयोबिम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनु- गामिनि हेतुरिति । तयोर्बिम्बप्रतिबिम्वभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेद- प्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्या- र्थोपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापन्ने इति । यद्यपि समसदृशश- ब्दाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव, तथापि तद्विशेषणयोः शोणाधरना- यिकास्तवकावनम्रलतयोबिम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्यप्रति- बिम्बभावे सादृश्यानुयोगित्वमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये । २३