पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला उपचरितो यथा- 'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥ एषा सीतां विवासितवतः खात्मगता रामस्योक्तिः । अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः । केवलशब्दात्मको यथा- 'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना म- त्रिणो मुनय इव ।' अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः । एवमेतेषां धर्माणां व्यामिश्रणं च संभवति । यथा-- 'श्यामलेनाङ्कितं भाले बाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥' अत्र भालगताङ्कप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्यर्ङ्थे आ- चारेऽनुगामिन्यभेदमापद्य स्थितौ । यथा वा- 'सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः । संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥ अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमा- पन्नाभ्यां [धर्माभ्यां] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङ- र्थोऽनुगामी। न तथेति । तथा तु प्रकृते नेत्यर्थः । गणाधिपगगनाभ्यामिति । गणाधि- पग्गनयोर्बिम्बप्रतिबिम्बभावे च बिम्बप्रतिबिम्बभावापन्नसिन्दूरसंध्याविशेषणकारुणत्व- शोणत्वे वस्तुप्रतिवस्तुभावापन्ने एव साधारणधर्म इति तयोरभेदेन विशिष्टधर्मेणेत्युक्तिरिति भावः । क्यर्ङ्थोऽनुगामीति । यद्यपि प्रसिद्धौज्ज्वल्यशोभाविशेषादिकमादायाप्या- चारोऽनुगामी कर्तुं शक्यते तथापि कवितात्पर्यविषयतास्यैवेति बोध्यम् । तादृशशो-