पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
रसगङ्गाधरः।

 

 अत्रालिङ्गितत्वलमत्वयोर्वस्तुप्रतिवस्तुभावः। तद्विशेष्यकयोश्च जलधिकन्याप्रियंगुलतयोर्बिम्बप्रतिबिम्बभावः। इत्ययमपि तत्करम्बित एव।

 तत्र तृतीयो यथा—

'दशाननेन दृप्तेन नीयमाना बभौ सती।
द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी॥'

 अत्र विशेषणयोर्द्दप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमाणत्वयोर्वस्तुप्रतिवस्तुभावेनोंभयतः संपुटितो दशाननद्विरदयोर्बिम्बप्रतिबिम्बभावः। इत्ययमपि तत्करम्बितः।

 'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यानिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्ध वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः। न च 'कोमलातपशोणाभ्रसंध्याकालसहोदरः' इत्यादौ यतिसंध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुङ्कुमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकते तु न तथा वस्तुप्रतिवस्तुभावः। वदनमृगाङ्कन्योः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्। एवं तर्हि 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कंधरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालंकारिकैःस्वीकारो विरुद्धः स्यात्। अतो यथास्थितमेव साधु।

——————

द्वितीयार्धे तु 'कषायवसनो याति' इत्यादौ । यद्यस्ति तदेत्यनेनारुचिः सूचिता । तद्बीजं तु—एकोऽप्यर्थो भिन्नशब्देनोपात्तो भिन्न इव प्रतीयते। अत एव 'उदेति सविता ताम्रस्ताम्न एवास्तमेति च' इत्यादौ 'रक्त एवास्तमेति च' इति पाठे दुष्टतेति प्राञ्चः। प्रकृते संबन्धिभेदादपि भेदप्रत्ययस्तवोः । भिन्नरूपेण प्रतीयमानस्य च न साधारणता। साधारणीकरणस्य च न कश्चिदुपायः, विना बिम्बप्रतिबिम्बभावापन्नैकधर्मसंबन्धित्वम्। तथा च शब्दाद्भेदेन प्रत्यये संबन्धिभेदाच्च भेदप्रत्यये बिम्बप्रतिबिम्बमावापन्नैकधर्मसंबन्धित्वेन तयोरभेदाध्यवसाये साधारणत्वस्येति कथं शुद्धस्योपमानिष्पादकत्वम्। अत एव प्राञ्चः बिम्बप्रतिबिम्बभावकरम्बित एवायमित्याहुरिति। प्रकृते तु