पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ काव्यमाला। एवं च प्राचां मते पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः। द्वात्रिंशद्धेदवादिनां तु षष्टयुत्तरं शतम् । इतश्चान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः । क्वचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । क्वचिद्वस्तुप्रतिवस्तुभा- वेन करम्बितं बिम्बप्रतिबिम्बभावम् । क्वचिदसन्नप्युपचरितः । क्वचिच्च केवलशब्दात्मकः। तत्राद्यो यथा- 'शरदिन्दुरिवाह्लादजनको रघुनन्दनः । वनस्त्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ॥' अत्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी । केवलबिम्बप्रतिबिम्बभावापन्नः 'कोमलातपशोणाभ्र-' इत्यत्र बोध्यः । द्वितीयार्धे तूभयम् । तृतीयोऽपि त्रिविधः-विशेषणमात्रयोर्विशेष्यमात्रयोस्तागलयोर्वा वस्तुप्रतिवस्तुभावेन करम्बितः । तत्राद्यो यथा- 'चलद्भङ्गमिवाम्भोजमधीरनयनं मुखम् । तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥' अत्र चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपा- दानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकयोश्च भृङ्गनयनयोर्बिम्बप्रतिबिम्ब- भावः । इति तत्करम्बितोऽयमुच्यते । तत्र द्वितीयो यथा- 'आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥' लंकारस्त्वप्रधानमेवेति भावः । वाच्यतायामपि विरोध इत्यनुषङ्गः । उभयं अनुगामित्वं बिम्बप्रतिबिम्बभावं च । अयं चोक्तान्तर्गतो नातिरिक्तो भेदः । अत एव वक्ष्यति- तृतीयोऽपि त्रिविध इति । षष्ठ इति च । वनस्रजा आपादतलावलम्बिमालया ।