पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधर । १७३ अत्र प्राधान्येन व्यङ्गचे आरोष्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उप- पादकस्य भालस्थमृगमदपङ्कविषयकस्याङ्काभेदारोपस्याङ्कसादृश्यरूपदोष- मूलकत्वादुपमात्रालंकारः। रसोपस्कारिका तु 'दरदलदरविन्द-' इत्यत्र प्रागेवोदाहृता । रसप- देनासंलक्ष्यक्रमस्योपलक्षणाद्भावाघुपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा- 'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु । वाच्यवस्तूपस्कारिका यथा- 'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥' अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका। वाच्यालंकारोपस्कारिका यथा- 'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥' अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागेवाभिहितम् । अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधानस्यैवालंका- र्यत्वादिति चेत्, मैवम् । अलंकारस्योपमादेव॑न्यमानतायां प्राधान्याद्र- सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः । एवमेव मु- ख्यतया वाच्यतायामपि । यथा ह्यापणादौ विक्रीयमाणतायां कनकताट- ङ्कस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्, एवमेव रसादिसांनिध्ये रू- पकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाद्यलंकारतेति । त्यर्थः । नन्वत्रोपमालंकारो नैवात आह-अत्र प्राधान्येनेति । व्यङ्गये इति । वाक्य- व्यङ्गये इत्यर्थः । अलंकारे सतीति शेषः । उपपादकेत्यस्य तस्येत्यादिः । अत्रालंकार इति । तथा च तदुपस्कारकत्वमस्या: स्पष्टमिति भावः । ननु वस्त्वलंकारयोरिव रस- स्यापि वाच्यत्वे न षोढा वक्तुमुचितेयमत आह-सादिरिति । प्रधानस्यैवेति । अ.