पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । नहि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क्त्त महाकविः । एवमेव “मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणारम्भेऽप्यप- शब्दितं तैः । तथा चाहुर्वैयाकरणाः-"पत्या पुरतः परतः', 'आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि', 'पुरतः सुदती समागतं माम्' इ. त्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः” इति । इयं चैवभेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यङ्गयानां वस्त्वलंका- रयोर्वाच्ययोश्चोपस्कारकतया पञ्चधा । तत्र व्यङ्गयवस्तूपस्कारिका यथा- 'अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम् । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ।' अत्र ताद्दंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्गयस्य वस्तुन उपस्कारिका भेषजोपमा । व्यङ्गयालंकारोपस्कारिका यथा- 'अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् । उल्लासपल्लवितकोमलपक्षमूला- क्ष्चञ्चूपुटं चपलयन्ति चकोरपोताः ॥' महाकविः कालिदासः । तैः अप्पदीक्षितैः । इदं चिन्त्यम् । “पुरत इति निपाताङ्गी- कारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, ‘पश्यामि ता- मित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते" इति केचित् । अन्ये तु "दक्षि- णोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञाप- नाय । तेन पचायजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः । वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाणिजभावे इगुपधलक्षणे के सार्वविभक्तिकस्तसिः' इति बोध्यम् । वैयाकरणा इति । प्राञ्च इत्यादिः । एवंभेदा वक्ष्यमाणप्रकारभिन्ना । तदेव विशिष्याह-वस्त्विति । आपातेति। प्रागनुभूयमानकटुत्वकानीत्यर्थः । ताद्दंशि आपातकाटवानि । प्राधान्येन व्यङ्गयस्येति । तेनापातकाटवानीति पदव्यङ्गयस्ये.