पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १७१ इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत- "नृणां यं सेक्मानानां संसारोऽप्यपवर्गति । तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥' अत्र क्विप्कनोलोंपे प्रत्येकं वाचकधर्मलोप उभयत्रापि तदरमणीय- मेवं । कनो वाचकस्य लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधर- भजनराहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः। न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकतेः ॥' इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति स्वोक्त्तेरसंगतत्वापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जने- ऽपवर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमा- नगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये सत्यपि वस्तुत उभ- यवृत्तित्वज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजन- राहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्र- कलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् । इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत- 'रूपयौवनलावण्यस्टहणीयतराकतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिनः पुरशब्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः। मिदम् । इदं चान्यदिति । वक्ष्यमाणमन्यच्चेत्यर्थः । क्विब्लोपे तथोक्तेयुक्तत्वेऽपि क- न्लोपेऽयुक्तत्वमित्याह-कन इति । तामुपपादयति-इहापीति । कथंकारं कथं कृत्वा । पाठान्तरवादी स्वाशयमाह-उपमेयेति । एवमेवेति । एवं च तुल्यतेति भावः। प्रकारान्तरेण स स्वाशयमाह-यदि चेति । इदमप्यन्यदिति । वक्ष्यमाणमि- त्यर्थः । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः । आद्यादित्वात्तसावित्युचितम् ।