पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- १६४ काव्यमाला। अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्षयादिवेन समासः । एषा चोपमानोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्या- बोधनाच्छ्रौती। पूर्णा आर्थी वाक्यगता यथा- 'प्राणापहरणेनासि तुल्यो हालहलेन मे। शशाङ्कं केन मुग्धेन सुधांशुरिति भाषितः ॥ पूर्णा श्रौती समासगा यथा- 'हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम् । शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥' अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा- 'आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान् ॥' पूर्णा श्रौती आर्थी च तद्धितगा यथा- 'निखिलजगन्महनीया यस्यामा नवपयोधरवत् । अम्बुजवद्विपुलतरे नयने तद्रह्म संश्रये सगुणम् ॥' अत्र पूर्वार्धे वर्तेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती । उत्त- राधै 'तेन तुल्यं-' इति विधानात्सादृश्यकवदर्थकतया आर्थी । मनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगत्वमाह-अत्रेति । इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यत्वेनास्य तत्प्रपञ्चत्वात् । एवं च वैकल्पिकत्वात्तदभाव इति भावः । पूर्णात्वमाह-एषेति। श्रुत्येति। इवेनेत्यर्थः । विशेष्यतयेति भावः। प्राणापेति । अत्र समासाभावाद्वाक्यगत्वम् । विषचन्द्रयोः प्राणापहारकत्वरूपधर्मस्य तुल्यशब्दस्य चोपादा- नात्पूर्णात्वम् । तुल्यशब्दस्य सदृशार्थकत्वेऽपि प्राधान्येनेवशब्दवत्सादृश्यबोधकत्वाभावा- दार्थत्वम्। हरीति । देवव्रतेन पुत्रिणी। पुत्रवतीत्यर्थः । अत्रापि चतुर्णामिवास्य चोपादा- नात्पूर्णात्वं श्रौतीत्वं च । समासगात्वमाह-अत्रेति । आनन्दनेनेति । करणे ल्युट् । लोकानामिति मध्यमणिन्यायेनान्वेति । आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति । अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमशब्देन समासाद्वा आर्थीत्वं समासगत्वं च । पूर्णात्वं तु स्पष्टमेव । सगुणं ब्रह्म कृष्णरूपम् । कुसुमकुलानां तरूणां तिलक श्रे- १. देवव्रतो भीष्मः, तेन पुत्रवती गङ्गा.