पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। लक्षणं नातीव रमणीयम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्या- पनात् । न च पर्यवसितत्वेन साधर्म्य विशेषणीयमिति वाच्यम् । अनन्व- यस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । का- व्यालंकारप्रस्तावे लौकिकालौकिकप्रधानवाच्यव्यङ्गयोपमासामान्यलक्षण- करणानौचित्याच्च । अत एव 'भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलंकारस- वस्त्रोक्तमपि लक्षणं तथैव । एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमे- यस्य सादृश्यमुपमा' इत्यलंकाररत्नाकरोक्तमपि न मव्यम् । क्ष्लेषमूलको- पमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् । तेन रूपेणो- पमानस्याप्रसिद्धेश्च । इत्यलं परकीयदूषणगवेषणया । प्रकृतमनुसरामः । अस्याश्चोपमायाः प्राचामनुसारेण केचिद्भेदा उदाह्रियन्ते । तथाहि- उपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-क्ष्रौती, आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता च- उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविधा । तत्रोपमान- लुप्ता-वाक्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगता- श्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च-आर्थ्येंव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्गता, आ- धारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षङ्विधा । धर्मोपमानलुप्ता-वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता क्विब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । ध- र्मोपमानवाचकलुप्ता तु समासगतैकविधा । इति । एवं साकल्येनैकोनविं- शतिर्लुप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाह्रियन्ते । तत्र पूर्णा श्रौती वाक्यगता यथा- 'ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः । प्रावषेण्य इव वारिधरो मे वेदनां हरतु तृष्णिवरेण्यः ॥' ति।अत एवेति । प्रकाशग्रन्थे। उक्तदोषगणादेवेत्यर्थः । तथैव नातीव रमणीयमित्यर्थः । एकमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः । ननु पर्यवसितत्वेन विशेषणान्न दोषोऽत आह- क्ष्लेषेति । प्राचां प्रकाशकारादीनाम् । तत्र तयोर्मध्ये । तत्र तासां सप्तानां मध्ये । तत्र पञ्चविंशतीनां मध्ये । ग्रीष्मेति । मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं ग-