पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । उपमानलुप्ता वाक्यगा यथा- 'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥' यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाभा- वेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वा- दलंकारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कनीयम् । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्ति इत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम् । एतेन 'ढुँढुँणन्तो हि मरीहिसि कण्टककलिआहँ केअइवणाहं। मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥' इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादयः परास्ताः। धर्मलुप्ता श्रौती वाक्यगता यथा- 'कलाधरस्येव कलावशिष्टा विलूनमूला लवलीलतेव । अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥' 'ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृ- षेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्य- मात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम् । वारिधरसादृश्यं च श्यामत्वा- दिना यदि तदा तत्राप्येषा बोध्या । इयांस्तु विशेषः-यत्पूर्णीयां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारिधर- ष्ठेति चम्पकविशेषणम् । यत्तुलनामिति । यस्य तुलनां यत्तुलनामित्यर्थः । शङ्कते- उपमानेति । यस्येति । यत इत्यादिः । इत्युक्त्येति । स नास्तीत्युक्तिरन्यथा स्यादि- ति भावः । एतेनेति । उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः । अत्रापि तत्प्राप्तिस्तव दुर्ल. भेत्युक्तं न तु स नास्तीति भावः। ढुँ ढुं कृत्वा हि मरिष्यसि कण्टककलितानि केतकीव- नानि । मालतीकुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ॥' लवलीलता 'हरफारेवडी' इति भाषया प्रसिद्धा ।अशोकमूलमिति। 'उपान्व-' इत्याधारः कर्म। श्याम त्वादिनेति । विवक्षितमित्यनुषङ्गः । सादृश्यस्यातिरिक्तत्वे आह-प्रावृषेण्येति । धर्मरूपत्वे आह-