पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। एवम् 'भुजो भगवतो भाति चञ्चच्चाणूरचूर्णने । जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ॥' अत्र धूर्जटिभगवद्रुजयोराकारेण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाश्चल्यवत्वजगन्मण्डल- संहारनिमित्तकवेगवत्वयोर्भानप्रकारयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारक- भानविशेष्यत्वस्य साधारणधर्मस्य सिद्धरुपमासिद्धिः । तत्र चाणूरजगन्म- ण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिबिम्बभावः । चूर्णनसंहारयोश्चाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्योरपि वस्तुत एकरूप- तैवेति वस्तुप्रतिवस्तुभावः । इत्येवं निरूपितमुपमालक्षणम् । अथेयमुदाह्नियते- 'गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमावहन्त्याः। दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥' अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवच- नेन समासे प्रतीपमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्य स्मृत्यु- पस्करणद्वारोपस्कारकतयालंकारः । न चात्र स्मृतिः प्रधानतया ध्वन्यते इति वक्तुं शक्यम् । न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेद- नात् । नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधिः प्रधा- नम् । तस्य नायिकागतत्वेनानुवाद्यत्वात् । उत्तरार्धगतस्मृत्यङ्गत्वाच्च । तस्मा- द्भावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिर्हापदगम्यः संतापोऽनुभावश्च वि- प्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम् । चाञ्चल्यवान् । धातूनामनेकार्थत्वात् । चाणूरो दैत्यः । तत्र धर्मयोर्मध्ये । वस्तुप्रति- वस्तुभाव इति । तत्र चूर्णनसंहारयोराश्रयभेदजभेदप्रत्ययस्तत्संबन्धिचाणूरजगन्म- ण्डलयोरभेदबुद्धिर्बहिरङ्गा नोदेतीति भावः । चाञ्चल्यवेगवत्वयोस्त्वाश्रयभेदाद्भेदेऽपि एकनिमित्तकत्वेनाभेदमादाय साधारणतेति बोध्यम् । समासे इति। 'उपमानानि-' इति सूत्रेणेति भावः । अत एव न श्रौतीत्याह-प्रतीपेति । सकलवाक्यार्थस्य सक- लवाक्यतात्पर्यविषयभूतस्य । शृङ्गारस्येत्यस्योपस्कारकतयेत्यत्रान्वयः । त्रासेति । गुरुजनभयमद्विलोकनपदबोध्ययोर्गुरुजनभयमद्विलोकनयोर्मध्ये व्याकुलत्वोदयेन द्वयोरपि