पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १५९ मालक्षितबुधाक्ष्लेषं राकेन्दोर्मण्डलमिव विलसतीति तादृशराकेन्दुमण्डलनि- रूपितसादृश्यप्रयोजकविलासाश्रयस्तादृशमाननमिति तात्पर्य तदा विपू- र्वकलसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादृशमिन्दुमण्डलमिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमाननमुद्दिश्य विलासा- श्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्ममिव मुखमित्यादा- विव आह्लादकत्वादिधर्म उन्नेय इति वाच्यम् । उपमानोपमेयशोभयोरपि वस्तुतोऽसाधारणत्वात् । 'कोमलातपशोणाभ्रसंध्याकालसहोदरः । कषायवसनो याति कुङ्कुमालेपनो यतिः ॥' इत्यादौ धर्मान्तरस्यापि प्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा- धारणत्वात्कथमुपमेति चेत्, अत्राहुः-उपमेयगतानामुपमानगतानां चा- साधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पना- दुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कुमालेपको- मलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदः सेद्धुं शक्नुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम् । प्रागुक्तेऽपि 'कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानोपमेययोरत्यन्तासत्यत्वेऽपि कल्पनामा- त्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयि- ष्यामः । अयमेव बिम्बप्रतिबिम्बभाव इति प्राचीनैरभिधीयते । भावः । तादृशराकेन्दुमण्डलेति । तद्विशिष्टराकेन्द्रित्यर्थः । एवमग्रेऽपि । तथा वक्तुं तु युक्तम् । आघे दूषणमाह-उपमानोपेति । द्वितीयरीत्योक्तप्रसिद्धोदाहरणे निर्वाहेऽप्यप्रसिद्धोदाहरणे दोषमासाद्य साधारणमाह-कोमलेति । कोमलातपत्वं शोणाभ्रत्वं च बहुव्रीहिणा संध्याकालविशेषणम् । अत एव कोमलातपादीनामिति वक्ष्यति । अभेदाध्यवसायेनेति । न चैकधर्मवत्त्वमिवोपमानवृत्तिधर्मसदृशधर्मवत्त्व. मप्युपमाप्रयोजकमस्तु किममुना भेदाध्यवसायेनेति वाच्यम् । साधारणधर्मेणोपमानोप- मेययोरभेदप्रतीतिकृतचमत्कारस्योपमायामिष्टस्य धर्मयोरभेदाध्यवसानं विनानुपपत्तेः । तथा चोक्तमलंकारसर्वस्वकृता-'भेदाभेदप्रधानोपमेतीति बोध्यम् । प्रागुक्त इति। यत इत्यादिः । अयमेव सादृश्यमूलाभेदाध्यवसाय एव । प्राचीनैबिंम्बप्रतिबिम्बभाव इत्यभिधीयत इत्यर्थः । एवं उक्तोदाहरणे उपमासिद्धिवत् । भगवतः कृष्णस्य । चञ्चन्