पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'त्वयि कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानस्यात्यन्तमसं- भावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम्, चमत्कारस्तु पुनः केन स्यादिति चेत्, कविना हि खण्डशः पदार्थोपस्थितिमता स्वेच्छया संभा- वितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम् । परमसुंकुमारीभवत्कनकनिर्मिताङ्गया मणिमयदशनकान्तिनि- र्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिङ्गनस्या- हादजनकत्वदर्शनात् । उपमानोपमेययोः समत्वस्य लक्षणे प्रवेशाभावा- न्नात्र दोषलेशोऽपि । अत एव 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥' इत्यादावपि नानुपपत्तिः । परे तु अस्याः कल्पितोपमाया उपमानान्त- राभावफलकत्वेनालंकारान्तरतामाहुः । तन्न । सादृश्यस्य चमत्कारितयो- पमान्तर्भावस्यैवोचितत्वात् । संनिरूपितत्वस्य लक्षणे प्रवेशाभावात् । उ- पमानान्तराभावफलकत्वं घुपमाविशेषत्वे साधकम् । न तूपमाबहिर्भावे । अथ 'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाक्ष्लेषं राकेन्दोरिव मण्डलम् ॥' इत्यादौ साधारणधर्मस्याभावात्कथमुपमानिष्पत्तिः । बुधमौक्तिकयोरेकै- कमात्रवृत्तित्वात् । न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन- नस्य चन्द्राधिकरणकानंलस्य । असंभावितत्वेन न तु सत्येन रूपेणेति भावः । कल्पि. तमिति । यतः कल्पितमत एवास दित्यर्थः । नन्वेवं भवतु तादृशस्यापि सादृश्यस्य चमत्कृतिजनकत्वं तथापि लक्षणे उपमानोपमेययोनिवेशेन तयोः सत्यत्वस्यापेक्षितत्वेन कथमुक्तस्थले निर्वाहोऽत आह-उपमानोपेति।भावफलकत्वमिति । उपमानान्त- राभावस्य फलत्वेऽपि कविकल्पितसादृश्यकृत एव चमत्कार इति नव्यमतेऽपि दोषः । आलक्षितेति । आलक्षिताक्ष्लिष्टबुधमित्यर्थः। तथा पाठस्तूचितः । अत एव वक्ष्यति- बुधमौक्तिकयोरिति। कथमिति। तद्धर्मोपस्थितेः कारणत्वस्य तत्र प्रागभिहितत्वादिति