पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। तत्रापि विपुलालंकारार्न्तवर्तिन्युपमा तावद्विचार्यते- सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः । सौन्दर्य च चमत्कृत्याधायकत्वम् । चमत्कृतिरानन्दविशेषः सहृदय- हृदयप्रमाणकः । अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसब्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारि- तैव । अत एव तस्यान्वयाभावादन्वयं तमाहुः । व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापहुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तू- पमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम् । मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुख इव चन्द्र इत्युपमेयोपमायां च सादृश्य- स्य चमत्कारित्वान्नातिप्रसङ्गः शङ्कनीयः । तयोः संग्राह्यत्वात् । ननु तेत्यादि । तत्रापि तेष्वपि । विपुलेति। बह्नित्यर्थः । वाक्यार्थोपस्कारकमित्यलंकारस्य। सुन्दरमित्यस्य व्यावर्त्यमाह-अनन्वये चेति । सामान्यलक्षणप्राप्तम् । सब्रह्मचा- रीति । सदृशेत्यर्थः । स्वयमिति । स्वस्यापर्यवसानादित्यर्थः । अत एव स्वार्थबोधने तात्पर्याभावादेव । तस्य सादृश्यस्य । द्वितीयं तदाह-व्यतिरेक इति । अन्यदपि तदाह-एवमिति । अनन्वयव्यतिरेकयोरिवेत्यर्थः । तत्तन्निष्पादकेति । अभेदा- पह्नवादिनिष्पादकेत्यर्थः । तयोस्तादृशप्रतीपोपमेयोपमानयोः । संग्राह्यत्वादिति । चित्रमीमांसोक्त्तोपमालक्षणदूषणावसरे इति भावः । नव्यास्तु “यत्र चन्द्राघुपमान- प्रतियोगिकत्वसादृश्यानुयोगिकत्ववुद्धिकृतश्चमत्कारस्तत्रोपमालंकारत्वम् । अनन्वये तु न स्वसादृश्यबुद्धिकृतः सः, किं तु निरुपमत्वबुद्धिकृत इति नोपमात्वम् । उपमेयोपमा- यामपि न परस्परसादृश्यबुद्धिकृतः सः किं त्वनयोरेव साम्यं न तृतीय एतत्सदृश इति बुद्धिकृत इति तस्यामपि न तत्त्वम् । मुखमिव चन्द्र इति प्रतीपेऽपि मुखादौ सादृश्य. प्रतियोगिकत्वबुद्धिकृत एव सः न तदनुयोगिकत्वबुद्धिकृत इति तत्रापि न तत्त्वम् । 'अहमेव गुरु:-' इति प्रतीपेऽपि उपमानतिरस्कृतत्वकृत एव सः न तु सादृश्यबुद्धि- कृत इति न तत्रापि तत्त्वम् । अलंकारभेदे च चमत्कारनिदानभेद एव निदानम् । रूपकोत्प्रेक्षादौ तथा कृप्तत्वात्, सहृदयानुभवसाक्षिकत्वाच्च । एतेन सादृश्यस्याप्रतिष्ठाने यदि सादृश्याप्रतीतिस्तार्ह्यनुभवविरोधः । यदि भेदगर्भे तदप्रतीतिस्तदा भेदांशनिवेशेन तद्विवरणे किं फलम् । उपमेयोपमावत्तस्याप्यवस्तूपमात्वमित्यपास्तम्" इत्याहुः । उपमा-