पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। "साध्यवपानायां च 'चन्द्रराजी विराजते' इत्यादौ चन्द्रादिशब्दै- र्लक्षणया मुखत्वेनोपस्थापितस्यापि मुखादेः शाब्दबोधश्चन्द्रत्वादिना भवति, लक्षणाज्ञानस्यैव माहात्म्यात्" इत्येके । “लक्षणया मुखत्वेन मुखादेः शाब्दबोधे वृत्ते व्यञ्जनयैकशब्दोपात्तत्वप्रादुर्भूतया चन्द्रत्वेन बोधः" इत्यपरे । मतद्वयेऽप्यस्मिन्मुखादौ चन्द्रत्वभानसामग्र्या मुखत्वादेः स्वध- र्मस्य भानं न निवार्यते । इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादी- नां च साक्षादानमेव सारोपातोऽस्या विच्छेदकम् । अपरे तु "निवार्यत एव विरुद्धभानसामग्र्या स्वधर्मस्य भानम् । रजतत्वभानसामग्रयां शुक्ति- त्वस्यामानात्" इति वदन्ति । मतेऽस्मिन्विषयतावच्छेदका स्फूर्तिस्तथा । वस्तुतस्तु साध्यवसानायां विषयतावच्छेदकधर्मभानं यदि सहृदयहृयप्रमा- णकं तदा तद्वारणाय कारणकल्पनानुचितैव । शुक्तिरजतभानस्थले तु शुक्तित्वेन भाते पुरोवर्तिनि रजतत्वभानस्य सर्वथैव विरुद्धत्वाद्रजतत्वभा- नसमये शुक्तित्वभाननिवारणमावश्यकम् । न चेहापि तथा । अनुभवविरु- द्धत्वात् । यदि तु तन्न प्रामाणिकं तदा सोचितैव । अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्गयस्य रमणीयताप्रयो- जका अलंकारा निरूप्यन्ते- मञ्चा हसन्ति । ताद्धर्म्याद्यथा--जटी ब्रह्मदत्तः । ब्रह्मदत्ते यानि कार्याणि जटिन्यपि तानि क्रियन्ते। तत्सामीप्याद्यथा-गङ्गायां घोषः । तत्साहचर्याद्यथा कुन्तान्प्रवेशय' इति । लक्षणाभाववादिनापि कथमन्योन्याश्रयः परिहार्यः । किमयः वा क्ष्लिष्टपर्यन्तानु- धावनं नवीनैर्दीक्षितैः कृतमिति चिन्त्यमिति । अयमेव दिगर्थ इति बोध्यम् । माहा- त्म्यादिति । समानप्रकारकत्वनियमस्य लाक्षणिकबोधान्यबोधविषयकत्वस्य प्रागुक्त- त्वादिति भावः । नियमाङ्गीकर्तृमतमाह-लक्षणेति । इदमपि प्रागुक्तम् । मुखत्वा: दीनां चेति । एकपदोपस्थाप्यानामिति बोध्यम् । साक्षादिति । सारोपायां तु चन्द्रत्वस्य चन्द्रसदृशे भानद्वारा तत्र भानमिति परम्परया तद्भानमिति भावः । अस्या इति । साध्यवसानाया भेदकमित्यर्थः । एकधर्म्यधिकरणकोभयभानं तु समानमिति भावः । विषयतावच्छेदकेति । लक्ष्यतावच्छेदकेत्यर्थः । क्वचित्तथैव पाठः । लक्ष्यतावच्छे. दकं च साधारणधर्मरूपमाह्लादकत्वाद्येवैतन्मते बोध्यम् । तथेति । ततो भेदिकेत्यर्थः । अथोपमा-काव्यात्मन इति । भेदे षष्ठीयम् । काव्यात्मनो यव्घङ्गथं तस्येत्यर्थः । यद्वा काव्यात्मन इत्यलंकारा इत्यनेनान्वेति । तत्सामान्यलक्षणमाह-व्यङ्गन्यस्य रमणीय.