पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते । इत्थं च लक्षणाया एवाभ्युपग- म्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनैरुक्तेति चेत्, अत्रोच्यते-उपमितसमासस्य भेदघटितोपमान- सादृश्यविशिष्टोपमेये शक्तेस्तद्धटकीभूतोपमानशब्दस्य भेदघटितसादृश्य- विशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः । इयमेव निपातानामिवा- दीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ वाचकलुप्तायामुपमायां च गति- रनुसरणीया । वाचकलोपस्तूपमानाद्यकरम्बितसादृश्यतद्विशिष्टान्यतरप्र- तिपादकशब्दशून्यत्वादुपपादनीयः । यच्च 'विद्वन्मानस-' इत्यत्र दू- षणमभिहितं तद्रूपकप्रकरणे परिहरिष्यते । यदप्युक्तं रूपके सदृशलक्ष- णायाः फलं ताद्रूप्यप्रत्ययो न युज्यते । तत्सदृश इतिशब्दजबोधानन्त- रमपि तथा प्रत्ययापत्तेरिति, तन्न । तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रूप्यप्रत्ययस्यापादानायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः । महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च । नव्यनये तु तेषामाकुलीभावः स्यादिति दिक् । उक्तदोषे चेत्यर्थः । द्विलुप्तेति । उक्तरीत्या धर्मवाचकयोः सत्त्वेन कथं धर्मवाचकलुप्तो- क्तेत्यर्थः । विशिष्टशक्तौ गौरवादाह-तद्धटकीति । भेदघटितेति । तथा च साधा- रणधर्माभानाद्धर्मलुप्तत्वं सुस्थम् । नन्वेवमपि ताद्रूप्यप्रतीत्या कथं धर्मलुप्तत्वमत आह- निरूढलक्षणेति।इयमेवेति । उक्तैवगतिरित्यर्थः। धर्मलुप्तोदाहरणमाह-मुखं चन्द्र इवेति । वाचकलुप्तायामिति। तडिद्रौरीत्यादावित्यर्थः। नन्वेवमपि सादृश्यवाचकस्यो- पमानशब्दस्यैव सत्त्वात्कथं वाचकलुप्तत्वमत आह-वाचकेति । वाक्ये इवानुपादाने वाचकलुप्तत्वायदश्येति (?) । समप्तदृशाद्यप्रयोगे तत्त्वायाह-तद्विशिष्टेति । सादृश्या- विशिष्टेत्यर्थः । परिहरिष्यत इति । अयं भावः--उपमेयोपमानयोरभेद एव रूप- कमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः । एवं च 'पौरुषाब्धेस्तरङ्गः । प्रत्यर्थिवंशोल्बणविजयकरिप्रौढदानाम्बुपट्टः खङ्गो मालवस्य' इत्यादौ खङ्गशब्दात्प्रतीय- मानदानाम्बुपट्टाभेदे प्रत्यर्थिषु वंशाभेदप्रतीतिमूलकतज्जातिसंवन्धित्वरूपं साधर्ये मू. लम् । प्रत्यर्थिषु वंशाभेदे च खङ्गे दानाम्बुपट्टाभेदप्रतीतिमूलकतद्भज्यमानत्वम् । तस्मा- दवश्यं रूपके लक्षणा । तथेति । ताद्रूप्येत्यर्थः । रूपके लक्षणा । अत्र युक्तयन्तरमाह- महाभाष्यादीति । तथा च 'पुयोगादाख्यायाम्' इति सूत्रे भाष्यम्-‘भिन्नानामभेदाभा- वात् । 'कथं पुनरतस्मिन् स इत्येतद्भवति' । चतुभिः प्रकारैस्तादूप्यमारोप्यते, न तु मुख्यम् । तात्स्थ्यातू, ताद्धर्म्यात्, तत्सामीप्यात, तत्साहचर्यात्, इति । तात्स्थ्याद्यथा-