पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। अप्पदीक्षिताः पुनश्चित्रमीमांसायाम–'उपमितिक्रियानिष्पत्तिमत्सा- दृश्यवर्णनमदुष्टमव्यङ्गमुपमालंकारः। स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः । तच्चिन्त्यम् । वर्णनस्य विलक्षणश- ब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालंकारताया बाधात् । तस्य सर्वथैवाव्यङ्गयत्वादव्यङ्गयत्वविशेषणवैयर्थ्याच्च । अथ य- दि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि । अ- शिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात् । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपल्लुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथा- प्यतिप्रसङ्गात् । न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्। विषयस्याचमत्कारित्वात् । चमत्कारिविषयककविव्यापारस्यैव वर्णनपदा- र्थत्वादिति वाच्यम् । एवं हि चमत्कारित्व्रस्य लक्षणेऽवश्यं निवेश्यत्वेनो- पमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । नह्यनिष्पन्नमापाततः प्रतीय- मानं सादृश्यं चमत्कृतिमाधत्ते । एवं द्वितीयलक्षणेऽपि निषेधापर्यवसा- यित्वं निरर्थकम् । व्यतिरेके कमलादिसादृश्यनिषेधस्यान्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थ सादृश्यस्य निरूपणमिति प्रागेवा- भिधानात् । किं च । 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः॥' तुल्यकक्षत्वम् । अत आह-परस्परेति । तस्य संधेः । पुनःशब्दार्थे शब्दस्य शब्द- वाच्यत्वमते नायं दोषोऽत आह-विलक्षणज्ञानेति । अव्यङ्गथत्वाद्वयङ्गथत्वाभा- वात् । तादृशेति । अदुष्टाव्यङ्गयाद्यविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति । उप- मालंकारापत्तिरित्यस्यानुषङ्गः । अदिसंग्राह्य (?) चिन्त्यम् । अत्रापि कालोपसर्जनयो- रपि । अत्र कालोपसर्जने च तुल्यमित्यत्र । द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपप्लुतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्या- दीति भाकः । तदाह-एकोपमेयेति । अत्रेति । यथा गौरित्यादावित्यर्थः । व्यतिरे- क इति । तवाननस्येत्यादावित्यर्थः । कमलादिसादृश्येति । कमलादिनिष्ठसादृश्ये- त्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमि- दम्, न तु लक्षणशरीरपदकमिति चेत्, तत्राह-किं चेति। वाक्यार्थत्वेनेति । तथा