पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ काव्यमाला। अत्रेदं विचार्यते-यत्तावदुच्यते नामार्थयोरभेदान्वयबोधेनैवोपपत्ती रूपके नास्ति लक्षणेति तत्र चमत्कारिसाधारणधर्मानुपस्थितिदशायामुप- मालंकारस्येव रूपकालंकारस्यापि नास्ति निष्पत्तिश्चमत्कारो वेति सकल- हृदयसिद्धम् । कथमन्यथा 'भारतं नाकमण्डलम्', 'नगरं विधुमण्डलम्' इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालंकृतसक- लकलादिशब्दश्रवणोत्तरमेव समुन्मेषः सर्वेषाम् । इत्थमेव च मुखं चन्द्र इत्यादिप्रसिद्धोदाहरणेऽपि । इयांस्तु विशेषः—यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमतः स्वबोधकश्रुतिं नापेक्षते । इतरत्र त्वप्रसिद्धतया तथा । एवं स्थिते साधारणधर्मवत्त्वरूपं सादृश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्थितिदशायां रूपकं न पर्यवस्येत् । चमत्कारं वा न जनयेत् । उपमानोपमेययोराहार्याभेदबुद्धेरनन्यापेक्षपर्य- वसानायाः साम्राज्यात् । न चाहार्यपदार्थद्वयाभेदबुद्धौ तच्चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति शक्यं वक्तुम् । 'यद्यनुष्णो भवेद्वह्निर्यघशीतं भवेज्जलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥' इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वह्नयनुष्णादीनामभेदप्रत्ययोपगतेः । न चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम् । ईदृशविशे- नामार्थयोश्चाभेदान्वय एवास्तु । न च बाधज्ञानं प्रतिबन्धकम् । सादृश्यज्ञानरूपदोषस्यो- त्तेजकत्वात् । एतज्ज्ञानं च प्रसिद्धसादृश्यकस्थले साधारणधर्मानुपादाने एकसंबन्धिज्ञा- नादपरसंबन्धिस्मरणन्यायेन । साधारणधर्मस्मृतौ दोषविशेषसहकारेण शब्दादभेदप्रत्यय- शङ्खे पीतत्वाभावनिश्चये काचकामलादिदोषेण तत्पीतत्वप्रत्यक्षवत् । रूपके आहार्यबुद्धिः रिति प्राचीनव्यवहारे बाधबुद्धिकालिकाकालिकत्वमात्रे आहार्यपदं लाक्षणिकम् । इव- शब्दादिसमभिव्याहारे तु तेन भेदगर्भसादृश्यस्यैवोपस्थापनान्नाभेदप्रतीतिरिति मम प्रति- भाति । तत्र दोषं वक्तुमाह-तत्रेत्यादिना । चमत्कारी यः साधारणधर्मस्तदनुपे- त्यर्थः । उभयत्र क्रमेण साधारणधर्ममाह-सुपर्वेति । देवालंकृतत्वं पण्डितालंकृ. तत्वं सकलकलात्वं चेत्यर्थः । कला षोडशो भागः कौशलं च । एकत्र प्रसिद्धोदाहरणे । इतरत्राप्रसिद्धोदाहरणे तु । तथेति । नियमेन स्वबोधकश्रुतिमपेक्षत इत्यर्थः । कथ- मिव कथमपि । अनन्यापेक्षेति । रूपकस्य तु धर्मविशेषोपस्थित्यपेक्षं पर्यवसानमिति भावः । विशेषज्ञानमिति । तथा च तदभावादभेदबुद्धिरपि न स्यादिति भावः । वह्नयनुष्णेति । वह्नयादावनुष्णाद्यभेदप्रतीतेरित्यर्थः । न चोपमेति । वह्नयनुष्णा-